________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
तिलकमञ्जरी -
आसीद् द्विजन्माऽखिलमध्यदेशे, प्रकाश्यसाङ्काश्य निवेशजन्मा | अलब्धदेवर्षिरिति प्रसिद्धि, यो दानंवर्धित्वविभूषितोऽपि ।। ५१ ।। शास्त्रेष्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्व देवः ॥ ५२ ॥ तज्जन्मा जनकाङ्घ्रिपङ्कजरजः सेवाप्तविद्यालवो
विप्रः श्रीधनपाल इत्यविशदामेतामबध्नात्कथाम् । अक्षुण्णोऽपि विवक्तिरचने यः सर्वविद्याविधना, श्रीमुञ्जेन 'सरस्वतीति' सदसि क्षोणीभृता व्याहृतः ॥ ५३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१ यो देवऋषिः स दानवऋषिरितिविरोधस्तत्परिहारस्तु दानस्य वर्षित्वेन किं वा देवर्षिरिति नाम्ना । २ बन्धे - ग्रन्थे । ३ बोधे - अवगमने । ४ सर्वदेवामिधः पुत्रः । पक्षे सर्वे देवा यस्य सः ।
५ पद्ये पद्ये चारुतार्थस्य दीव्या, वाक्ये वाक्ये मिष्टता ऽस्याश्चरम्या | पत्रे पत्रे दृश्यतेऽस्या रसत्त्वं, पुष्पे पुष्पे निर्झराः सद्रसानाम् ॥ १ ॥ रसच्युतेयं 'तिलकादिमञ्जरी' - कथाsखिला श्रोत्रसुधाप्रदायिनी । पदे पदे नूतनभाववाहिनी, वागर्थगाम्भीर्यविराजमाना ॥ २ ॥ रम्यं रम्यं वर्णनं यत्र तत्र श्रुत्वा श्रुत्वा को न तृप्तिं प्रयाति । दृष्ट्वा दृष्ट्वाऽलङ्कृतिभ्राजमानां, वाचामृद्धिं रज्यते सर्वलोकः ॥ ३ ॥
यस्यां कामं कामदं चित्तहारि, श्रेयोमूलं सेवनीयं चरित्रम् | प्राचीनानां पावनं पावकानां गीतं स्फीतं शुद्धभावोपपन्नम् ॥ ४ ॥
2
स्निग्धार्थेयं गद्यभूता प्रभूता, सत्काव्यानां भूरिभूषां बिभर्ति । यस्मात्सर्वः काव्यसंपादितोर्थो व्याख्यातोऽस्यां वाग्विचित्रप्रभावः ॥ ५ ॥
सं० मुनिहेमेन्द्रसागरः
For Private And Personal Use Only