________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयं परिशिष्टम् । అణలు
(जिनस्तुतेर्विशिष्टपद्यानि) श्रीशोभनमुनिप्रणीता सम्पूर्णा जिनचतुर्विंशतिका कृतिर्विविधञ्छन्दोऽलङ्कारविभूषितपद्याऽऽत्मिकाऽस्ति, तत्राऽपि प्रतिभाशालिनां चमत्कृतिकारकाणि कानिचिद् विशिष्टपद्यान्यत्र प्रदर्श्यन्ते
श्रीऋषभजिनस्तुतिः । भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली
रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म ! विदुषां संपादय प्रोज्झितारम्भासाम! जनाभिनन्दन ! महान् , अष्टापदाभासुरैः ॥ १॥
शार्दूलविक्रीडितम् ।
श्रीरोहिणीस्तुतिः। विशिखशङ्खजुषा धनुषाऽस्तसत्
सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणीं सुरभियाततनुं नम हारिणा ॥१६॥
द्रुतविलम्बितम् । ( ३ )
समस्तजिनवरप्रार्थना । विधुतारा ! विधुताराः !
सदा सदाना ! जिना ! जिताघाताघाः ? ।
For Private And Personal Use Only