________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४७ ॥
पीठिका.
यत्सैन्यागमशङ्किनामसुहृदामाकृष्टगन्धा इव, ___ श्वासैः खेदनिरायतैर्विदधिरे सद्यः शिरोवेदनाम् ॥४५॥ श्रुत्वा यं सहसागतं निजपुरात् त्रासेन निर्गच्छतां, ___ शवगामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः । शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि, ___ क्रीडादौ च मुहुर्मुहुर्विवलितग्रीवैर्विमुक्ता दृशः ॥४६ ।। प्रासादेपु त्रुटितशिखैरश्वभ्रलब्धप्रवेशैः,
प्रातः प्रातस्तुहिनसलिलैः शार्वरैः स्नापितानि । धन्याः शून्ये यदरिनगरे स्थाणुलिङ्गानि शाखा--
हस्तस्रस्तैः कुसुमनिकरैः पादपाः पूजयन्ति येषां सैन्यभराहितोरगपतिश्रान्ति प्रयातां बहि
र्जायन्ते स्थगिता हिमांशुमहसः श्वेतातपत्रर्दिशः । आभान्ति प्रभवो नृणामितरवत्तेऽप्यागताः सेवया,
यस्याऽनेकजनाकुले निजवपुर्मात्राः सभामण्डपे ॥४८॥ न स्वप्नेऽपि समाश्रिता रिपुजनं म्लानिं गता नोन्नतो,
लग्ना साधुगुणद्विषां शुचितया कर्णे न दुष्टात्मनाम् । निर्दोषाहमनेन दिक्षु गमितेत्यात्मीयवार्तामिव,
व्याकर्तुं व्रजति स्म यस्य तरसा कीर्तिः सुरेन्द्रालयम् ॥४९।। निःशेषवाङ्मय विदोऽपि जिनागमोक्ताः,
श्रोतुं कथाः समुपजातकुतूहलस्य । तस्यावदातचरितस्य विनोदहेतोराज्ञः स्फुटाद्भुतरसा रचिता कथेयम्
॥ ५० ॥
१ प्रासादेषु-देवमन्दिरेपु । २ त्रुटितशिखराणां श्वभ्राणि-महान्ति छिद्राणि तेषु लब्धः प्रवेशो यैस्ते तथाभूतैः। त्रुटितशि खरेग्विति सप्तम्यन्तपाठे इदं प्रासादविशेषणं योज्यं तदाऽभ्रा णीत्यादिव्याख्येयम् । ३ शर्वरीभवैः । ४ स्थाणुलिङ्गानिशङ्करलिङ्गानि ।
For Private And Personal Use Only