________________
Shri Mahavir Jain Aradhana Kendra
५८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे, विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः ॥ ३९ ॥
तस्मिन्नभूद्रिपुकलत्रकपोलपत्र - बल्ली वितानपरशुः परमारवंशे । श्रीवैरि सिंह इति दुर्धर सैन्यदन्ति दन्ताग्रभिन्नचतुरर्णवकूलभित्तिः॥४०॥ तत्राऽभूद्वसतिः श्रियामपरया श्रीहर्ष इत्याख्यया, विख्यातञ्चतुरम्बुराशिरसनादाम्नः प्रशास्ता भुवः । भूपः खर्वितवैरिवर्गगरिमा श्रीसीयकः सायकाः, पचेोरिव यस्य पौरुषगुणाः केषां न लग्ना हृदि ॥ ४१ ॥
तिलकमञ्जरी.
तस्योदग्रयशाः समस्तसुभटग्रामाग्रगामी सुतः,
सिंहो दुर्धरशत्रु सिन्धुरततेः श्रीसिन्धुराजोऽभवत् । एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूर्यस्य स -
श्रीमद्वाक्पतिराजदेवनृपतिर्वीराग्रणीरग्रजः ॥ ४२ ॥ आकीर्णाङ्घ्रितलः सरोजक लशच्छत्रादिभिर्लाञ्छनै
स्तस्याऽजायत मांसलायुतभुजः श्रीभोज इत्यात्मजः । प्रीत्या योग्य इति प्रतापवसतिः ख्यातेन मुञ्जाख्यया, यः स्वे वाक्पतिराजभूमिपतिना राज्ये ऽभिषिक्तः स्वयम् ॥४३॥
,
देव्या विभ्रमसद्म पद्मवसतेः कर्मावतंसं क्षितेः, सौभाग्यप्रतिपक्ष मिन्दुमहसः सर्गाद्भुतं वेधसः । त्योsवधिभूतमीक्षणहृतां नेत्राऽमृतं योषितां, रूपन्यक्कृतकाममद्भुतमणिस्तम्भाभिरामं वपुः ॥ ४४ ॥
आयाता शरदित्युदीर्य मुदितैर्दारैः पुरो दर्शितालीलोद्यानभवा नवाः सुमनसः सप्तच्छदमारुहाम् ।
For Private And Personal Use Only
1 पञ्च इषवो यस्य सः, " सम्मोहनोन्मादनौ च शोषणस्तापनस्तथा । स्तम्भनश्चेति कामस्य, शराः पञ्च प्रकीर्तिताः " ॥ १॥