________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना ।]
[३७ धनपालेन ‘पाइयलच्छी नाममाला' रचितास्ति । देवर्षिणा च राज्यशासनाङ्गप्रवृद्धौ धारायां गतेन राजवल्लभेन निजपाण्डित्यप्रकर्षाद्विपुलं धनमुपार्जितम् । पूर्वोपार्जितं सर्वं च तद्वित्तं पृथिव्यां तेन निधानीकृतम् । अथ सर्वदेवो विपुलपरिवारो निजाऽपत्यानि पाठयितुं सदोद्योगपरायणः स्वजीवनमनयत्, पितरि दिवं गते तन्निहितं धनमजानानः स संभ्रान्तमनाः सद्मनि सर्वत्र व्यलोकयत् । धनमलभमानश्चिन्तातुरोऽजनिष्ट सः । तदानीं धनपालशोभनौ तत्पुत्रौ चतुर्दशसु विद्यासु पारगामिनौ बभूवतुः, सर्वदेवो धनपालश्चोभौ मुञ्जभोजनृपयोरतीव माननीयौ जातौ सुखेन निर्वाहमकार्टाम् । तथाऽपि महादानित्वात् बहुपरिवारत्त्वाच्च सर्वदेवस्य विपुलतरवित्तापेक्षिणः धरानिहितधनलिप्सया तत्स्थानं च निश्चेतुमुत्कण्ठा समुद्भूता । तस्मिन्समये चान्द्रगच्छीय-आचार्यश्रीमहेन्द्रसूरिविहरन् क्रमेण धारायां समागमत् । __ स च ज्ञानप्रभावेण सर्वत्र नगर्या प्रसिद्धो बभूव, तवृत्तान्तं सर्वदेवेन श्रुतं, ततः सर्वदेवो दिनत्रयं उपाश्रये महेन्द्रसूरिसन्निधौ तूष्णीं तस्थौ । ___ तथाविधं तं निरीक्षमाणः सूरिस्तत्कारणमपृच्छत् , तेनोक्तम्मत्पित्रा निधानीकृतधनस्थलं दर्शय, आचार्येण तत्प्रेयोवस्त्वर्धभागप्रदानप्रतिज्ञया धनस्थानं तस्मै संदर्शितम् । चत्वारिंशल्लक्षमितसुवर्णटङ्कास्तेन निधानतो लब्धाः । जैनमुनयो निष्किञ्चना इति
१ विक्कमकालस्स गए, अउणत्तीसुत्तरे सहस्सम्मि । मालवनरिंद धाडिए, लूडिए मन्नखेडम्मि ॥ १ ॥ धारानयरीए परि-ट्ठिरण मग्गे ठिआए अणवजे । कजे कणि?बहिणीए 'सुंदरी' नाम धिजाए ॥ २॥
( पाइयलच्छीनाममाला ) पृ० ४५.
For Private And Personal Use Only