SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६ ] [ शोभनस्तुतेः एतेन ज्ञायते च विक्रमनृपतेरेका दशशताब्यां श्रीशोभनमुनेरस्तित्वमासीत् । तस्य पितामहो देवर्षिनामा काश्यपगोत्रो वाडवान्वयविभूषको दानशौण्डो मध्यदेशवर्त्तिसांकाश्यनगरीवास्तव्योऽभूत् । तस्य च देवर्षेः सर्वशास्त्रनिपुणो लब्धसर्वकलाकौशल्यः कविप्रवरो भाषाशास्त्रसंप्राप्तस्वातन्त्र्यः सर्वदेवाऽभिधः सूनुरभूत् 1 ततो देवर्षिः सपरिवारः साङ्काश्यनगरमपहाय विद्वज्जनसन्मानदानैकवीरश्रीमन्मुख राज संरक्षित विशालायां निवासमकार्षीत् । तत्र सर्वदेवस्य सोमश्रीनामा भार्याऽतीव गुणनिधिभूतौ धनपालशोभननामानौ पुत्रौ सुन्दरीनामैकां सुताञ्च प्रासूत । यस्याच कौमार एवं क्षतमारवीर्य agi चिकीर्षन्निव रिष्टनेमेः । यः सर्वसावद्यनिवृत्तिगुर्वी, Acharya Shri Kailassagarsuri Gyanmandir सत्यप्रतिज्ञोः विदधे प्रतिज्ञाम् ।। ५ ।। अभ्यस्यता धर्ममकारि येन, जीवाऽभिघातः कलयाऽपि नैव । चित्रं चतुः सागरचक्रकाञ्चि स्तथापि भूर्व्यापि गुणस्वनेन ॥ ६ ॥ एतां यथामति विमृश्य निजाऽनुजस्य, तस्योज्ज्वलां कृतिमलंकृतवान् स्ववृत्या । अभ्यर्थितो विदधता त्रिदिवप्रयाणं तेनैव साम्प्रतकविर्धनपालनामा ||७|| १ मध्यदेशस्वरूपमभिधानचिन्तामणौ- हिमवद्विन्ध्ययोर्मध्ये, यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च, मध्यदेशः स मध्यमः ॥ ( श्लोक - १७ - कां - ४ ) २ उज्जयिनी स्याद्विशाला - ऽवन्ती पुष्पकरण्डिनी । का० ४ श्लो० ४२ For Private And Personal Use Only
SR No.008638
Book TitlePrastavana Trayi
Original Sutra AuthorN/A
AuthorShobhanmuni, Ajitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages102
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy