________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८]
[ शोभनस्तुतेः विस्मरन् सत्यसन्धः स विप्रो लब्धधनस्यार्धभागं सूरये प्रदातुं समुद्यतः, तथापि स आचार्यों तं ने स्वीचकार
सर्वदेवेन चिरं प्रार्थितोऽपि सूरिस्तदाग्रहं नाऽमन्यत, कथितञ्च यदि स्वप्रतिज्ञा सत्यापयितुं त्वमिच्छसि तर्हि पुत्रयोर्द्वयोरेकं मे देहि । ततः सर्वदेवेन जैनदीक्षां स्वीका धनपालो ज्येष्ठसुतोऽवाचि, सोऽपि जैनमतविरोधित्त्वात् पितुर्वचनं नाऽमन्यत । पितुः सन्तोषाय तद्वचनं कनीयसा सूनुना शोभनेन स्वीकृतम् । महेन्द्रसूरिणा स दीक्षितः कृतः।
केषुचित्प्रबन्धेषु शोभनमुनेगुरो मान्यन्यानि निर्दिष्टानि, तं केचिद्वर्धमानसूरिः केचिच्च जिनेश्वरसूरिरिति संबोधयन्ति, वयं त्वत्र प्रभावकचरित्रादिजैनैतिहासिकग्रन्थानाश्रित्य महेन्द्रसूरिरित्यभिधानं अनुमन्यामहे, यतो धनपालेन स्वरचिततिलकमञ्जयां तदेव नाम स्मृतम्, महेन्द्रसूरिः प्रायः कामपि ग्रन्थरचनां कृतवानिति न ज्ञायते, तथा च प्रभावकचरित्रे जन्महायनादिप्रतीतिर्न लभ्यते । प्रभावशालीसूरिरयम् । उक्तञ्च
मूरिर्महेन्द्र एवैको वैबुधाराधितक्रमः ।. यस्याऽमयोचितप्रौढिः, कविविस्मयकृद्वचः ॥१॥
(तिलकमञ्जर्याम् श्लो० ३४ ) विद्वान् व्याख्यातृचूडामणिरसौ बभूव-- धराधवान् धर्मसुकर्मबोधत-वकार वश्यान् श्रुतधर्मवर्मनि । निवर्त्तयामास विकर्मसेवनान्-निजक्रमाऽभ्यर्णगतान् विधर्मिणः।१।
१ यतिने काञ्चनं दत्त्वा, ताम्बूलं ब्रह्मचारिणे । चोरेभ्योऽप्यभयं दत्त्वा, स दाता नरकं व्रजेत् ।।
पाराशरस्मृतिः अ. १ श्लो: ६०.
For Private And Personal Use Only