________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૯૦૮
Acharya Shri Kailassagarsuri Gyanmandir
कुर्वन्तः कर्म केऽप्यत्र, निष्कर्माणः स्वचित्ततः निष्क्रियास्ते क्रियावन्तो, रागादिभाव संयुताः २११ ॥ मार्गानुसारिधर्मस्य, द्योतकानि विशेषतः सेव्यानि धर्मकर्माणि मोक्षसाधकमानवैः || २१२॥ मैत्र्यादिभाववृद्ध्यर्थं, वित्ततश्वत्रियोगतः विश्वस्मिन् कर्म कर्तव्यं, लोकानां पूज्यसज्जनैः ॥२९३॥ सामाजिक हितार्थाय, यानि कर्माणि सन्ति वै सर्वस्वार्थान् परित्यज्य, तानि सेव्यानि मानवैः॥ २९४ ॥ मां शान्तिप्रचारार्थ देया सात्विकदेशना सद्भिः शान्ति प्रबन्धैश्व, स्थातव्यं शान्तिकर्मसु ॥ २१५ ॥ दोषयुक्तान् जनान् दृष्ट्वा, कर्तव्या करुणा सदा तेषु गुणप्रचारार्थं वर्तितव्यं स्वशक्तितः ॥ २१६ ॥ आविर्भूता गुणा यस्य, क्षमाद्या हृदये शुभाः गुणीभूतो जनः सैव, प्रचारयति सद्गुणान् ॥ २९७॥ धैौदार्यगुणादीनां प्रादुर्भावो यतो भवेत् कर्तव्यं तदनुष्ठानं, गुणानुरागिभिः शुभम् ॥२१८॥ कर्तव्या धर्मसंस्कारा, धर्मकामार्थमुक्तिदाः संस्काराणां रहस्यंतु, ज्ञायते ज्ञानयोगिभिः ॥ २१९॥ आत्मोन्नतिः सदाकार्या, सद्गुणै गुरुबोधतः प्रत्यहं दोषवृन्दानां नाशार्थं भज सद्गुरुम् ॥ २२० ॥ निन्दा नैव प्रकर्तव्या, द्वेषतोऽपरधर्मिणाम्
For Private And Personal Use Only