________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदा मोक्षो यदाचित्त, मसक्तं सर्वदृष्टिषु ॥ यदा नाऽहं तदा मोक्षो, यदाऽहं बन्धनं तदा। मत्त्वेतिहेलया किञ्चिन् , मा गृहाण विमुञ्च मा ॥ त्वमेकश्चेतनः शुद्धो, जडं विश्व मस तथा। अविद्यापिन किञ्चित्सा: कानुभुत्सा तथापि ते। नाहं देहो न मे देहो, बोधोहमिति निश्चयी। कैवल्यमिव संप्राप्तो, न स्मरत्यकृतंकृतम् ।। मोक्षो विषयवरस्यं, बन्धो वैषयिको रसः। एतावदेव विज्ञानं, यथेच्छसि तथा कुरु॥ न त्वं देहो न ते देहो, भोक्ताकर्ता नवा भवान् । चिद्रूपोऽसिसदा साक्षी, निरपेक्षः सुखं चर ॥ रागद्वेषौ मनोधर्मी, न मनस्ते कदाचन । निर्विकल्पोऽसिबोधात्मा, निर्विकारः सुखंचर। इदं कृतमिदं नेति, द्वन्द्वैर्मुक्तंमनो यदा, । धर्मार्थ काममोक्षेषु, निरपेक्षं तदा भवेत् ॥ यस्याभिमानो मोक्षेपि, देहेऽपि ममता तथा। नच ज्ञानी नवा योगी, केवलं दुःख भागसौ॥ धर्मार्थकाममोक्षेषु, जीविते मरणे तथा । कस्याप्युदारचित्तस्य, हेयोपादेयता न हि ॥ कृतं देहेन कर्मेदं, न मया शुद्धरूपिणा। इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥
For Private And Personal Use Only