________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका.
प्राकृतेषु प्रबन्धेषु, रसनिष्यन्दिभिः पदैः ।
राजन्ते जीवदेवस्य, वाचः पल्लविता इव ॥ २४ ॥ म्लायन्ति सकैलाः कालि-दासेनासन्नवत्तिना। गिरः कवीनां दीपेन, मालतीकलिका इव ॥ २५ ॥ केवलोऽपि स्फुरन् बाणः, करोति विमदान कवीन् । किं पुन: क्लप्पसन्धान-पुलिन्ध्रकृतसन्निधिः ॥२६॥
व्याख्याः --केवलोऽपि बाण:-बाणकविः, पक्षे सायकः, कवीन्काव्य-कर्तन् , पक्षे कस्य-वारिणो वयः-हंसादयस्तान , विमदान्मदरहितान् करोति, किं पुनः क्लसं-कृतं सन्धानं-कादम्बर्या उत्तरार्धनिर्मितिरूपं येन स चासौ पुलिन्ध्रो बाणसूनुस्ततः सन्निधिः सामीप्यं यस्य सः । पक्षे क्लप्तं-सन्धानं करयोजनादिकं येन स चासौ पुलिन्ध्रो भिल्लस्तत्कृतं सन्निधानं यस्य सः ॥ २६ ॥
तृतीयशताव्द्याः समीपवत्ती, अष्टहायनो दीक्षितः । निजगुरुणाऽऽर्यनागहस्तिना पट्टधरं विदित्वा दशहायनाय तस्मै सूरिपदं प्रादायि, फुल्लश्रेष्टिनामाऽस्य पिता, माता च प्रतिमाभिधा, बैरोट्यादेवीप्रसादतः स जात इति मातापितृभ्यां नागेन्द्रनामाचक्रे । अवन्त्यधिपतिविजयब्रह्मनृपतिसमयेऽस्य जन्म संभाव्यते । पादलिप्तेत्यभिधानं कारणवशाद्गुरुणा प्रकल्पितम् , आदिमाऽवस्थाऽनेन मथुरायां पाटलीपुत्रे च व्ययिता, शेषसमयो मानखेटप्रतिष्ठानपुरयोर्व्ययित्वा सौराष्ट्रदेशे विहरन् समाप्तितोऽनेन । पाटलीपुत्राधिपतिर्मुण्डराजः प्रतिष्ठानपुरेशः सातवाहनः मानखेटपति कृष्णराजादयश्चैते भूपतयश्चारित्रविद्वत्ताभ्यां तद्भक्ताः सञ्जाताः । स च शङ्करबृहस्पतिपाञ्चलादिविद्वद्भिर्वि
वादे विजय
१ जीवदेवसूरिविक्रमादित्यसमकालीनो मन्त्रतन्त्रादिविद्या सिद्धः प्राप्तसिद्धिरद्धतप्रभावशाली चासीत् , प्रबन्धकारास्तु विक्रमसमकालीनोऽयमितिज्ञापयन्ति तथाऽपि पञ्चमशताब्द्यामसौ विद्यमान इति प्रतीयते । प्राकृतग्रन्था बहुधा तन्निमिता: प्रतीयन्ते।
२ समस्ताः कलेन-मधुरेण व्यक्तेन च ध्वनिना सहिताः ।
For Private And Personal Use Only