SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ तिलकमजरीअमनोहरं गद्यं निर्दिशति-- अखण्डदण्डकारण्य-भाजः प्रचुरवर्णकात् । व्याघ्रादिव भयाघ्रातो-गद्याद् व्यावर्त्तते जनः ।। १५ ॥ वर्णयुक्ति दधानाऽपि-स्निग्धाञ्जनमनोहराम् । । नातिश्लेषघना श्लाघां, कृतिलिपिरिवाश्नुते ॥ १६ ॥ अश्रान्तगद्यसन्ताना, श्रोतृणां निर्विदे कथा । जहाति पद्यप्रचुरा, चम्पूरपि कथारसम् ॥ १७ ॥ सत्कथारसवन्ध्येषु, निबन्धेषु नियोजिताः । नीचेष्विव भवन्त्यर्थाः, प्रायो वैरैस्य हेतवः ॥ १८ ।। नमो जगन्नमस्याय, मुनीन्द्रायेन्द्रभूतये यः प्राप्य त्रिपदी वाचा, विश्वं विष्णुरिवानशे ॥ १९ ॥ प्रस्तावनादिपुरुषौ, रघुकौरववंशयोः । वन्दे वाल्मीकिकानीनौ, सूर्याचन्द्रमसाविव ॥ २० ॥ सत्यं बृहत्कथाम्भोधे-विन्दुमादाय संस्कृताः । तेनेतरकथाः कन्थाः, प्रतिभान्ति तदग्रतः ॥ २१ ॥ जितं प्रवरसेनेन, रामेणेव महात्मना । तरत्युपरि यत्कीर्तिः, सेतुर्वाङ्मयवारिधेः ॥२२॥ प्रसन्नगम्भीरपथा, रथाङ्गमिथुनाश्रया। पुण्या पुनाति गङ्गेव, गां तरङ्गवती कथा ॥२३॥ १ दण्डकः छन्दो-विशेषः पक्षे दण्डकनामाऽरण्यम् । २ वर्णाः कादयः, पीतादयश्च । ३ स्निग्धामिति भिन्नं पदं रसयुक्तां, स्निग्धेनाञ्जनेन मनोहराम् । ४ उद्वेगाय । ५ विरसत्त्वं, विद्वेषस्येति पृथक्पदम् । ६ जीर्णवसनखण्डानि । ७ पादलिप्ताचार्यनिर्मितयं तरङ्गवती कथा विद्यते । यतः-निर्वाणकलिका काल-ज्ञानप्रश्नप्रकाशकः । तरङ्गवतीत्याद्युल्लेखात् । विद्यमानसमयोऽस्य सूरेर्विक्रमसंवत्षषष्ट्यधिकशतद्वयप्रमितः, दीक्षासमयष For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy