SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका. व्याख्या-' यद्वाचः' येषां गिरः, ‘मधुना' मधुरत्वेन, 'स्वादुतां' स्वादुत्त्वं 'नीताः' प्राप्ताः ‘पशूनामपि' दिवौकसामपि, 'मानसं' चित्तं, 'न मदयन्ति' न मोदयन्ति, 'तेऽपि' तथाविधा अपि, ' भुवि ' क्षितौ । किं कवयः' अर्थात् कवयो न भवन्ति । पक्षे-यन्नादाः, चैत्रेण स्वादुतां-स्वादुभावं गताः पशूनां-तिरश्चामपि मानसं न रञ्जयन्ति ते पिकवयः-कोकिलपक्षिणः किम् ॥ ११ ॥ संप्रति काव्यं समीक्षमाण आह काव्यं तदपि किं वाच्य-माश्चि न करोति यत् । श्रुतमात्रममित्राणां, वक्त्राणि च शिरांसि च ॥ १२ ॥ उत्पतन्त्यजवद् व्योम्नि, केचित्प्राप्तपदत्रयाः। विशन्यन्ये प्रबन्धेऽपि, लब्धेबलिरिव क्षितिम् ॥ १३ ॥ व्याख्या- केचित् ' कवयः प्राप्तं पदत्रयं स्त्याद्यन्तं यैस्ते तथाभूता; प्रमाणभूतं चरणत्रयं प्राप्य विष्णुवत्, व्योम्नि-अम्बरे, उत्पतन्ति प्राप्नुवन्ति । अन्ये ऽपरे विबुधाः प्रबन्धे लब्धेऽपि, बलिरिव क्षिति, विशन्ति-बुद्धिरहितत्त्वात् । दुर्जनदशां दर्शयति काश्मनेव श्यामेन, मुखेनाधोमुखे क्षणः । काव्यहेम्नो गुणान् वक्ति, कलाद इव दुर्जनः॥ १४॥ १ पश्यतीति ( सर्वमविशेषेण-दृशे: कुप्रत्ययः ) पशुः । मृगादौ प्राणिनि प्रमथे, प्राणिमात्रे शिवात्मनि । यज्ञीयोदुम्बरे छागे, अजेऽपि पशुयज्ञके ॥१॥ शैवागमप्रसिद्धात्म-न्यग्नौ च चित्रपादपे । . पशुर्मासादिकेऽज्ञाने, पशुहव्यर्थमव्ययम् ॥२॥ इति शब्दासन्धुः । २ वक्त्रविशेषणे-न विद्यते वाग् येषु तानि, अवाञ्चि-वचनरहितानि । शिरोविशेषणे-अवाञ्चीति-अव-अधःअञ्चन्ति- अधोगतानि । ३ कषपट्टेनेव ४ पश्यतोहरः । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy