________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
माघेन विनितोत्साहा - नोत्सहन्ते पदक्रमे । स्मरन्ति भारवेरेव, कवयः कपयो यथा
कादम्बरीसहोदर्या, सुधया बुधे हृदि । हर्षोख्यायिकया ख्याति, बाणोब्धिरिव लब्धवान् ॥ २७ ॥
निरोद्धुं पार्यते केन, समेरादित्यजन्मनः । प्रशमस्य वशीभूतं, समरादि त्यजन्मनः
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८ ॥
व्याख्यार्थः - माघेन - माघकविना, पक्षे माघमासा, विनित उत्साहो येषां ते तथाभूताः कवयः कपय इव पदक्रमे - काव्यरचनायां, पक्षे चरणानां विन्यासे, नोत्सहन्ते उत्साहं न कुर्वन्ति, अपि च भारवेः--भारविकवेः, पक्षे सूर्यस्य, भाः - किरणानेव स्मरन्ति ||२८||
॥ २९ ॥
व्याख्यार्थः- समरादित्यात् - समरादित्यनृपकथानकात् जन्मप्रादुर्भावो यस्य तथाभूतस्य प्रशमस्य- शान्तेर्वशीभूतं, समरादि- युद्धादि त्यजत् परिहरत् मनचेतो निरोद्धुं वशीकत्तुं केन पार्यते - शक्यते !
स्पष्टभावरसा चित्रैः, पदन्यासैः प्रवर्त्तिता । नाटकेषु नदस्त्रीव, भारती भवभूतिना
तिलकमअरी
॥ ३० ॥
दृष्ट्वा वाक्पतिराजस्य, शक्ति गौडवधोद्धुराम् । बुद्धिः साध्वसरुद्धेव, वाचं न प्रतिपद्यते ॥ ३१ ॥
भद्रकीर्ते भ्रमत्याशाः कीर्त्तिस्तारागणाध्वनः । प्रभा ताराधिपस्येव, श्वेताम्बर शिरोमणेः
"
For Private And Personal Use Only
॥ ३२ ॥
१ माधुर्यादिना स्वोपज्ञकादम्बरी कथातुल्यया, पक्षे कादम्बर्या-मदिरायाः सहोदर्या । २ विबुधानां पण्डितानां देवानाश्चेदं तस्मिन् । ३ वन्नाम्ना आख्यायिकयाप्रमोदाख्यया च । ४ चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थकर्तृश्रीहरिभद्रसूरिरचिता समरादित्यकथा प्राकृताऽधुना मुद्रिता लभ्यते ।
५ बप्पभट्टिराचार्यः पञ्च देशनिवासी । बप्पिस्तत्पिता, तम्माता च भट्टिनाग्नी,