________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
[ अजितसागरसूरेः जीवनं परहितायैव व्ययितम् । संस्कृत-प्राकृतभाषायां तेन बहवो लेखाः प्रादुष्कृताः, संस्कृत-प्राकृतग्रन्थार्थाः देशभाषया प्रकटीकृताश्च । तद्विरचितग्रन्थाश्चेमे भीमसेनचरित्रं, अजितसेनचरित्रं, तरङ्गवतीकथा (पद्यात्मका) चन्द्रराजचरित्रं, स्तुतयः, श्रीशोभनस्तुतेष्टीका, धर्मशाऽभ्युदय-नेमिनिर्वाण-तिलकमञ्जरी-शान्तिनाथचरित्रादिमहाकाव्यानां टीकाः, शब्दसिन्धुः. बुद्धिप्रभाव्याकरणं, सुभाषितसाहित्यं, बुद्धिसागरसूरिचरित्रं, श्रीकल्पसूत्रसुखबोधिका चेति संस्कृतगिरा गुम्फिताः सन्ति । कृतिश्चैषां मनोहारिणी सुगमा रसमयी च । वेदान्ततत्त्वञ्च तेन ग्रन्थद्वाराव्यक्तीकृतम् । वेदान्तरहस्यं च काव्यप्रबन्धेन गुर्जरगिरा बहुधा विशदीकृत्य प्रकाशितम्। तच्च समयोचितभावमयं हृल्लासकं जनानानन्दयति । सुपार्श्वनाथचरित्रसुरसुन्दरी-कुमारपालचरित्रादीनां भाषान्तराणि तद्रचितानि वर्तन्ते । इत्थं तेन मुनिना साहित्यप्रमुखप्रवृद्धिर्विशेषतो विहिता ।
तेषामीहशी शक्तिमनेकधाऽपरयोग्यतां च निरीक्ष्य तस्मै योगनिष्ठाध्यात्मज्ञानदिवाकरश्रीमदाचार्यबुद्धिसागरसूरिभिः (प्रांतिज) पत्तनेअशित्युत्तरैकोनविंशतितमेऽब्दे आचार्यपदं प्रदत्तं सागरसंघाटकस्यधूश्च समर्पिता। ततोऽसौ कियत्कालं सूरिपदं व्यभूषयत् , तदन्तरेऽपि ग्रन्थविलेखने देशनादाने च तेन सर्वथा समयो व्ययितः । महास्मनां क्षणोऽपि जगजनानाममूल्य इति को न विजानाति ? । धार्मिकसामाजिकोन्नतिकारकप्रवचनप्रदानेन सह कानिचिद्धार्मिकक्षेत्राणि गुरुकुलविद्यानिकेतनानि च साहाय्यदानद्वारासजीवनानि विहितवान् सः। अभ्यस्तयोगविद्यः स गुरुभक्तिमेव मुख्यतोऽमन्यत । इति तदुपदेशेन निर्मापितानि श्रीमद्बुद्धिसागरसूरीश्वरस्य गुरुमन्दिराणि सूचयन्ति । आर्यसमाजिसनातनधर्मिखिस्तिपारसिकयवनानां धर्मस्थानेषु गत्त्वा स्वयं व्याख्यानानि धर्मप्रवृत्तयेऽदात् । तेन च नरेशाननेकधा प्रबोधयता राज्यस्थानेषु सदुपदेशेनाहिंसाधर्मः
For Private And Personal Use Only