SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तान्तम् । ] समागत्य सूरीश्वरदर्शनमकार्षीत् , तैश्च साकं तेन भक्ष्याऽभक्ष्याचारसमाचारीजीवदया-प्राकृतसंस्कृतभाषा-सूत्ररचना-मूर्तिप्राचीनत्वावश्यकताप्रभृतीनां प्रभूता ऊहापोहा विहिताः, मीमांसाऽप्यकृत । ततो निश्चितं तेन-यत् स्थानकवासिमत आधुनिक एव, तेऽपि रूपान्तरेण गुप्ततया तत्सदृश (स्थापना) स्वरूपेण मूर्ति मन्यमाना अज्ञजनान् भ्रान्तान् कुर्वाणास्तेषां स्वस्य चात्मिकहितं नाशयन्ति । इत्थं तेन (अमिऋषि) मुनिना सुपरीक्षा विधाय पञ्चषष्ट्युत्तरैकोनविंशतितमे ( १९६५ ) वि. संवत्सरे गृहीतमतमनादत्य पूर्वोक्तसूरीश्वरपादान्ते श्वेताम्बरसाम्प्रदायिका संवेगिदीक्षा स्वीकृता । अजितसागर इत्यभिधया ख्यातिमभजदस्मिन् सम्प्रदाये, यद्यपि स्थानकवासिमतं वितथं विज्ञाय त्यक्तवान् तथाऽपि परमतसहिष्णुत्वात् सोऽन्यमतानिव तन्मतमपि समानभावेनाऽपश्यत् । बहुशस्तेन स्थानकवासिसाधुभिः समं प्रसिद्भभाषणादिप्रवृत्तयो विहिताः, अत एव निश्चीयते, तन्मनसि क्वचिदपि केनाऽपि सार्द्ध तिरस्कारो द्वेषबुद्धिश्च न प्रादुरभवत् । सर्वैः सह प्रमोदभावेन वर्तितव्यं सत्यवर्त्म न परित्याज्यमिति तज्जीवनस्य प्रधानताऽऽसीत् । अथ स मुनिराजः प्रत्यहं ज्ञानवृद्धि विधातुं प्रावतत, संस्कृतप्राकृतवाङ्मयतत्त्वानि सम्यक् ज्ञातवान् । तदन्वागमिकभावान पुनरवलोकितवान् । तत्तट्टीकानियुक्तिभाष्यचूर्णिकापर्यालोचनत आगमिकगौरवं तेन प्रत्यक्षीकृतम् । प्राथमिकवक्तृत्वशक्तिप्रभावेण सञ्जातप्रसिद्धिसन्मानं विशेषतः स्वागमज्ञानपूर्वकं निजगुरुसकाशात्प्रत्यहं संप्राप्ताध्यात्मज्ञानादिना व्यस्फुरत् । विज्ञानतपसा वपुरपि सविषयं कृशतामभजत् । अष्टाहिकादितपश्चर्या बहुशः परिचिता तेन, योगोद्वहनतप आराध्य ज्ञानञ्चाराधितम् । ततः सानन्दनगरे तस्मै महोत्सवपूर्वकं पन्यासश्रीमद्वीरविजयेन पन्यासपदं गणिपदं च प्रदत्तम् । मेघगम्भीरनादेन सततं देशनाप्रदानेन लोकोपकारकारिणा प० श्रीमद् अजितसागरगणिना For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy