________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तान्तम् ।] प्रतिष्ठितः । सततं विहारप्रियः स सूरिः क्रमेण श्रीनगर ( अमदावाद)-सुरत-मुम्बापुरी-पट्टण-राजधन्यपुर (राधनपुर) विजयपुर (विजापुर) सानन्द-प्रान्तिक (प्रांतिज) वटपल्ली (वडाली) प्रल्हादनपुर-महेशान-उमापुर ( उंझा) पादलिप्त (पालीताणा)-यामनगरअमदावाद-प्रांतिज--पेथापुर-विजापुर-महानसादिपत्तनेषु--चातुमासीः कृतवान् । इत्थं स महानपि समाजकार्याणि धर्मबुद्धया साधयन् महत्त्वमानं मनसाऽपि नाऽचिन्तयत् , अन्यान् प्रभावशालिनो विधातुं सदैव स प्रमुदितोऽभूत् । अतस्तेन सतीर्थ्याभ्यां मुनिश्रीऋद्धिसागरमुनिश्रीकीर्तिसागराभ्यां मुनिश्रीदुर्लभविजय-मुनिश्रीरङ्गविमल-अ. ञ्चलगच्छीयमुनिश्रीदानसागरेभ्यो गणिपदं पन्न्यासपदश्च व्यतीर्यत ।
ततः पञ्चाशीत्युत्तरैकोनविंशतितमे वैक्रमसंवत्सरे चाश्विनशुक्लतृतीयायां स्वर्गस्थोऽभूत् । येनात्मकल्याणं साधयता जगदुद्धारायाऽनल्पः परिश्रमः सेवितः, यतोऽधुना सोऽसन्नपि विद्यमानतां भजति। अस्माभिरपि तज्जीवनपरिचयेन निजात्मकल्याणं शासनजगद्वितं च यथास्यात्तथा यतितव्यमितिभावनया तत्संक्षिप्तजीवनं पूर्णयन्विरमति।
( माणसा) कार्तिकशुक्ल- 1 पञ्चम्याम् सं. १९९१ ।
तत्पादपङ्कजालिमुनिहेमेन्द्रसागरोऽन्तेवासी
For Private And Personal Use Only