SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना । निवृत्ततर्षः परिवर्त्तमानः, सदात्मतत्त्वेषु विभासमानः।। महेन्द्रवत्सूरिरयं व्यराजत् , धर्माधिराज्यं नितरां दधानः ॥२॥ धर्मद्विषोऽन्ये कलुषाः कषाया-बबाधिरे तं न निजप्रभावात् । कियान् हि बाह्यो रिपुवर्ग ईशो-विकारदृष्ट्या समवेक्षितुं वै ॥३॥ प्रभावकचरित्रे महेन्द्रसूरिवृत्तान्तं प्रदर्शितम् । तत्र शोभनमुनिधनपालकौलकविधर्माणां विदुषामाख्यानं वर्णितम् । किन्तु अस्मिन् प्रबन्धे महेन्द्रसूरिवृत्तान्तं स्वल्पतरं लभ्यते । अतस्तजन्मजातिगुर्वादिसंबन्धः कश्चिदपि न प्रतीयते । - अथ धनपालः कनिष्ठभ्रातरं दीक्षितं विज्ञाय तस्मै सूरये भृशं चुक्रोध, निजपित्रा विरोधं कुर्वत् स्वमित्रीभूतं युवराजं भोजराज विबोध्य द्वादशवर्षपर्यन्तं मालवदेशे मुनिविहारं न्यवारयत् । यदा (१) भृगुकच्छ( भरुच )पुरवास्तव्यः सुरदेवब्राह्मणस्तत्पुत्रोऽयं बाल्यावस्थायामनभिज्ञो बभूव, कस्यचिद्योगिनो वितीर्णवरेण कवित्त्वशक्तिं प्राप्य शक्त्युपासकः सोऽभूत् ततो गृहवासं परित्यज्य पर्यटन् स शास्त्रविवादे बहून् विदुषो जयन् श्रीशान्तिसूरिणा महाकविधनपालेन च विजितस्ताभ्यां सह चिरं मित्रतामधात् । (२) महेन्द्रसूरिसमयः शिथिलाचारप्रधानोऽभूत् । तत्र श्रीमहेन्द्रसूरिश्रीवाचनाचार्यशोभनमुनी सुविहिताविति तयोराचारविहारादिभिर्ज्ञायते । ३ महाकविधनपालेन वि. सं. ( १०२९) पाइअलच्छीनाममाला रचिता, तदानीं स षोडशहायनो विंशतिहायनो वाऽभवत् । स च जनमतावलम्बी नाऽभूत्, यतस्तस्यां नाममालायां जैनपारिभाषिकाः शब्दा न दृश्यन्ते, किन्तु संस्कृतसमदैशिकप्राकृतशब्दा निवेशिताः । __ पृष्ठे (१३) पादे ( १७१) “ तित्थाहिवई जिणो अरहा" इत्युल्लेखेन केचित्तं जेनं मन्यते तदनुचितं, यतस्तदुल्लेख: पश्चात्प्रक्षिप्तः संभाव्यते । किंवाऽर्हनिति जनप्रसिद्धत्त्वात्तदुल्लेखः स्वेनैव कृतो ज्ञायते । आद्यमङ्गले ब्रह्मणो नामस्मरणेन च जैनेतरः प्रतीयते । श्री वाक्पतिराज( मुञ्ज )स्य राज्यसमयस्तस्मिन्समयेऽभूत् । ततो भोजराजो युवराजपदारूढ आसीत् । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy