SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८] [ शोभनस्तुतेः विस्मरन् सत्यसन्धः स विप्रो लब्धधनस्यार्धभागं सूरये प्रदातुं समुद्यतः, तथापि स आचार्यों तं ने स्वीचकार - सर्वदेवेन चिरं प्रार्थितोऽपि सूरिस्तदाग्रहं नाऽमन्यत, कथितञ्च यदि स्वप्रतिज्ञा सत्यापयितुं त्वमिच्छसि तर्हि पुत्रयोयोरेकं मे देहि । ततः सर्वदेवेन जैनदीक्षां स्वीका धनपालो ज्येष्ठसुतोऽवाचि, सोऽपि जैनमतविरोधित्त्वात् पितुर्वचनं नाऽमन्यत । पितुः सन्तोषाय तद्वचनं कनीयसा सूनुना शोभनेन स्वीकृतम् । महेन्द्रसरिणा स दीक्षितः कृतः। केषुचित्प्रबन्धेषु शोभनमुनेगुरो मान्यन्यानि निर्दिष्टानि, तं केचिद्वर्धमानसूरिः केचिञ्च जिनेश्वरसूरिरिति संबोधयन्ति, वयं त्वत्र प्रभावकचरित्रादिजैनैतिहासिकग्रन्थानाश्रित्य महेन्द्रसूरिरित्यभिधानं अनुमन्यामहे, यतो धनपालेन स्वरचिततिलकमञ्जर्यां तदेव नाम स्मृतम् , महेन्द्रसूरिः प्रायः कामपि ग्रन्थरचनां कृतवानिति न ज्ञायते, तथा च प्रभावकचरित्रे जन्महायनादिप्रतीतिर्न लभ्यते । प्रभावशालीसूरिरयम् । उक्तञ्च सूरिर्महेन्द्र एवैको-वैबुधाराधितक्रमः । यस्याऽमयोचितप्रौहिः, कविविस्मयकद्वचः ॥१॥ (तिलकमञ्जर्याम् श्लो० ३४ ) विद्वान् व्याख्यातृचूडामणिरसौ बभूव-- धराधवान् धर्मसुकर्मबोधत-श्चकार वश्यान् श्रुतधर्मवम॑नि । निवर्तयामास विकर्मसेवनान्-निजक्रमाऽभ्यर्णगतान् विधर्मिणः।१। १ यतिने काञ्चनं दत्त्वा, ताम्बूलं ब्रह्मचारिणे । चोरेभ्योऽप्यभयं दत्त्वा, स दाता नरकं व्रजेत् ।। पाराशरस्मृतिः अ. १ श्लो. ६०. For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy