SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra .] www.kobatirth.org ४० [ शोभनस्तुतेः मालवदेशे साधुविहारनिषेधस्तदानीं महेन्द्रसूरि : शोभनमुनिश्च गुर्जरदेशेऽभूताम् । गुरुणा जैनसिद्धान्तं पाठयित्वा शोभनसुनये वाचनाचार्य पदवी प्रदत्ता, यः गुणाकरत्त्वात् सुरेन्द्रस्याऽपि स्तव - नयोऽभूत् । इत्थं प्रबंधकारो विज्ञापयति - तस्मिन् समये शोभनमुनिरतीय विद्वानासीत् ! सौभाग्यसागरसूरिः शोभनस्तुतेष्टीकां निर्मितवान् - सोऽपि प्रस्तौति Acharya Shri Kailassagarsuri Gyanmandir " शोभनः सर्वशास्त्रेषु, शोभनः स्तुत्यकीर्तिभाक् । विदुषां माननीयश्चाऽप्रमेयकविशक्तिभाक् ॥ १ ॥ ” शोभनमुनिं विद्वत्तमं विज्ञाय तद्गुरुस्तस्मै सूरिपदं समर्पितवान् । ततो मुनिदर्शन विरहादुपदेशाभावाच्च जैनशासनस्य लघुतां विदित्वा धारासंघेन श्री महेन्द्रसूरिरभ्यर्थितः, भगवन् ! मुनिविहार निषेधो दूरीकर्त्तव्यः । आचार्येण जैनशास्त्रनिष्णातः शोभनमुनिस्तत्र गमनायाऽऽज्ञप्तः । धनपाल: प्रतिबोद्धव्यो जैनशासनोन्नतिश्व विधातव्येति कार्यद्वयचिकीर्षुणा तेन प्रागेव वाक्चातुर्यतश्चारित्रबलेन शासनप्रभावेण च तत्कार्यं साधितम् । ततो धनपालं विशुद्धं श्राद्धं विधाय मालवदेशे मुनिविहारं स प्रावर्त्तयत् । तेन धनपालेन समयोचितोक्त्या भोजराजो मृगयाव्यसनपराङ्मुखी कृतः । वैक्रमैकादशशताव्द्याश्वरमभागे विद्यमानोऽयं मुनिः कदा स्वर्गस्थोऽभूदिति विज्ञानसाधनं लब्धपूर्वं नासीत् । अतस्तदत्र न निश्चीयते । परन्त्वस्याः स्तुतेर्धनपालकृत टीकाया अवतरणतो ज्ञायते - असौ स्तुतिकारो धनपालस्यानुजस्तेन मुनिना ज्येष्ठबन्धुं धनपालं परमार्हतं विधाय पश्चादणहिल्लपुरे शोभनस्तुतिर्निरमाथि । विद्यमाने ( १ ) पट्टणपुरे प्राय: स्थितिमन्तौ तदानीं श्रीभीमदेवस्य राज्याधिकारो बि० सं० ( १०७८ - ११२० ) अष्टसप्तत्युत्तरसहस्रमारभ्य विंशत्युत्तरैकादशशतपरिमितो बभूव । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy