SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३५ प्रस्तावना।] श्चैतत्स्तुतिटीकाऽवतराणदिग्रन्थेषु तद्वंशादिनिर्देशो दर्शितः । अन्योऽपि कश्चन धनपालनामा कविरासीत् , तेनाऽपभ्रंशभाषायां — भवियसत्तकहा ' इति पुस्तकं विरचितम् । अयं धनपालोऽन्य एव यतः स धक्कडवणिम् जाती समुत्पेदे । 'धनसिरि मायेसर इति तस्य पितरावास्ताम् । अन्यच्च स दिगम्बरो बभूव इति प्रतिभाति, यतो योऽच्युतदेवलोकः श्वेताम्बरमते द्वादशः प्रकीर्तितः स एवानेन धनपालेन षोडशः प्रकीर्तितः। तस्य ग्रन्थेषु 'भजिवि जेण दियंवरि । ' एवंविध उल्लेखो वर्तते । अन्यच्च भवियसत्तकहायां ये देशशब्दास्ते पाइयलच्छिनाममालायां नोपलभ्यन्ते । अतोऽयं धनपाल: कश्चिदन्य एव इति सिद्धम् ॥ पट्टणपुरवास्तव्येन पल्लिवालज्ञातीयेन धनपालेनं वि० सं. (१२६०) वत्सरे तिलकमञ्जरीसारः पद्यात्मको व्यलेखि, लक्ष्मीधरपण्डितेन वि० (१२८१) वत्सरेऽन्यस्तिलकमञ्जरीसारो द्वादशशतानुष्टुप् श्लोकैर्निर्मितः । अष्टादशशताब्द्यां श्रीपद्मसागरगणिना तिलकमञ्जरीवृत्तिर्विहिता । विंशतिशतान्यां पं. लावण्यविजयेन श्रीमद् अजितसागरसूरिणा च तवृत्तिर्निरमाथि । १ श्रीधनपालकृतटीकाऽवतरणश्लोकाश्चेमे --- आसीद् द्विजन्माऽखिलमध्यदेश प्रकाशसांकाश्यनिवेशजन्मा। अलब्ध देवर्षिरिति प्रसिद्धि यो दानवर्षित्वविभूषितोऽपि ॥ १॥ शास्त्रेप्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्वदेवः ॥२॥ अब्जायताक्षः समजायतास्य, लाध्यस्तनूजो गुणलब्धपूजः। यः शोभनत्वं शुभवर्णभाजा, न नाम नाम्ना वपुषाऽप्यधत्त ॥३॥ कातन्त्रचन्द्रोदिततन्त्रवेदी, यो वुद्धबौद्धार्हततत्त्वतत्त्वः । साहित्यविद्यार्णवपारदर्शी, निदर्शनं काव्यकृतां बभूव ॥४॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy