SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ शोभनस्तुतेः एतेन ज्ञायते च विक्रमनृपतेरेकादशशताब्द्यां श्रीशोभनमुनेरस्तित्वमासीत् । तस्य पितामहो देवर्षिनामा काश्यपगोत्रो वाडवान्वयविभूषको दानशौण्डो मध्यदेशवर्तिसांकाश्यनगरीवास्तव्योऽभूत् । तस्य च देवर्षेः सर्वशास्त्रनिपुणो लब्धसर्वकलाकौशल्यः कविप्रवरो भाषाशास्त्रसंप्राप्तस्वातन्त्र्यः सर्वदेवाऽभिधः सूनुरभूत् । ततो देवर्षिः सपरिवारः साङ्काश्यनगरमपहाय विद्वज्जनसन्मानदानैकवीरश्रीमन्मुञ्जराजसंरक्षितविशालायां निवासमकार्षीत् । तत्र सर्वदेवस्य सोमश्रीनामा भार्याऽतीवगुणनिधिभूतौ धनपालशोभननामानौ पुत्रौ सुन्दरीनामैकां सुताञ्च प्रासूत । यस्याश्च कृते कौमार एव क्षतमारवीर्य__ श्चेष्टां चिकीर्षन्निव रिष्टनेमेः । यः सर्वसावद्यनिवृत्तिगुर्वी, सत्यप्रतिज्ञो. विदधे प्रतिज्ञाम् ॥५॥ अभ्यस्थता धर्ममकारि येन, जीवाऽभिघातः कलयाऽपि नैव । चित्रं चतुःसागरचक्रकाञ्चि स्तथापि भूापि गुणस्वनेन ॥६॥ एतां यथामति विमृश्य निजाऽनुजस्य, तस्योज्ज्वलां कृतिमलंकृतवान् स्ववृत्त्या । अभ्यर्थितो विदधता त्रिदिवप्रयाणं तेनैव साम्प्रतकविर्धनपालनामा ॥७॥ १ मध्यदेशस्वरूपमभिधानचिन्तामणौ हिमवद्विन्ध्ययोर्मध्ये, यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च, मध्यदेशः स मध्यमः॥ (श्लोक-१७-का-४ ) २ उज्जयिनी स्याद्विशाला-ऽवन्ती पुष्पकरण्डिनी । का० ४ श्लो० ४२ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy