________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४ ]
[ शोभनस्तुतेः
धनपालाय तद्विद्याचमत्कृतः स 'सिद्धसारस्वत' इति बिरुदं दत्तवान् । धनपालभोजयोमित्रभाव आसीत् । भोजराजस्य राज्यसत्ता समयस्तु वि. सं. सप्तषष्ट्युत्तरसहस्रमारभ्य ( १०६७ ) एकादशाधिकैकादशशत ( ११११ ) पर्यन्तमभूत् ।
श्रीशोभनमुनेरुपदेशतः संप्राप्त जैनधर्मो धनपालस्तिलकमञ्जरीमपरां कादम्बरीमिव रचितवान् । तद्वचनरचनाऽतीव माधुर्यमावहति ।
Acharya Shri Kailassagarsuri Gyanmandir
वचनं धनपालस्य, चन्दनं मलयस्य च । सरसं हृदि विन्यस्य, कोऽभून्नाम न निर्वृतः ॥ १ ॥ ( प्रबन्धचिन्तामणी )
वादिवेतालश्रीशान्तिसूरिभिस्तिलकमञ्जरी संशोधिता, टिप्पण्या च समलङ्कृता । महेन्द्रसूरिकवीन्द्र श्री शान्ति सूरि सुराचार्य प्रभृतीनां जैनाचार्याणां परिचितोऽभूद्धनपालः | श्रीऋषभदेवप्रासादस्तेन निर्मापितः, तत्प्रतिष्ठा श्रीशोभनमुनिना तद्गुरुणा महेन्द्रसूरिणा च विहिता । धनपालकविवरः सत्यपुरे ( साचोरपुरे ) केनचित्कारणेन कियत्समयं वसन् श्रीमहावीरस्वामिसेवापरायणः कालं व्यनयत् । आयुषो - न्तेऽसौ महेन्द्रसूरिसन्निधौ संलेखनां विधाय गृहस्थाश्रमी सन् स्वर्गभागभूत् ।
6
66
अयं धनपालपण्डितो ज्योर्विदप्यासीत् । तथा चोक्तं प्रबन्धचिन्तामणीअथ कस्मिन्नप्यवसरे नरेश्वरः ( भोज: ) सरस्वतीकण्ठाभरणप्रासादे व्रजन् सदा सर्वज्ञशासनप्रशंसापरं पण्डितं धनपालमालपत्- ' सर्वज्ञस्तावत्कदाचिदासीत् तद्दर्शने साम्प्रतं कचिज्ज्ञानातिशयोऽस्ति ' इत्यभिहिते अर्हत्कृते ऽर्हच्चूडामणिग्रन्थे ' विश्वत्रयस्य त्रिकालवस्तुविषयस्वरूपपरिज्ञानमयाऽपि विद्यते ' इति तेनोक्ते त्रिद्वारमण्डपे स्थितः कस्मिन् द्वारेऽस्माकं निर्गम: ' इति शास्त्रकलङ्कारोपणोद्यते नृपे 'बुद्धिमात्रा त्रयोदशी' इति पाठ सत्यापयता भूर्जपत्रे नृपप्रश्न निर्णयमालिख्य मृण्मयगोलके निधाय च छगलिकाधरस्य तं समर्प्य देव ! पादोऽवधार्यताम् इति नृपं प्राह तद्बुद्धिसंकटे निपतितं खं मन्यमान एतद् द्वारत्रयस्य मध्यात्किमपि निर्णीतं भविष्यति' इति विमृश्य सूत्र मृद्भिर्मण्डप पद्मशिलातलमपनीय तन्मार्गेण निर्गत्य तं गोलकं भित्त्वा तेष्वक्षरेषु तमेव निर्गमनिर्णयं वाचयंस्तत्कौतुकोत्तालचित्तः श्रीजिनशासनमेव प्रशशंस । तथाहि-
<
For Private And Personal Use Only
द्वाभ्यां यन्न हरिस्त्रिभिर्न च हरः सृष्टा न चैवाभिर्यन द्वादशभिर्गुहो न दशकद्वन्द्वेन लङ्कापतिः । यनेन्द्रो दशभिः शतैर्न जनता नेत्रैरसंख्यैरपि, तत्प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ॥१॥ "