SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रस्तावना । “ सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥ १ ॥ " ( सन्मतिप्रकरणम् ) केषामविदितमेतच्छेमुषीमतां विद्वत्पुङ्गवानां श्रीशोभनमुनिविनिर्मिता जिनस्तुतिचतुर्विंशतिका शोभनस्तुत्यभिधेया स्तुतिप्रवरा सुजनचित्तचमत्कारिणी सहृदयहृदयहारिणी यमकादिविविधालङ्कारविभूषिता नैकधा छन्दः सन्दोहकरम्बिता काव्यमूर्द्धन्यतां बिभर्त्ति । Acharya Shri Kailassagarsuri Gyanmandir अवचूरिकाकृदादिभिरस्याः स्तुतेः शोभनस्तुतिरिति व्यपदेशेन व्यवह्नतिर्व्यधायि, स्तुतिकारस्यास्य सम्पूर्णं जीवनाख्यानं नालभ्यत, यत्किञ्चनाऽवलम्बनमासाद्याऽत्र तद्दर्शयितव्यमिति नाऽसमञ्जसम्— श्रीशोभनस्य ज्येष्ठबन्धुना कविकुलललामभूतेन धर्नपालेनाऽपरै १ श्री शोभनस्य कविकुलावतंसस्य ज्यायान्बन्धुर्धनपालोऽपि कविताकामिनीमसाधारण्या भक्त्या सिषेवे । सोऽपि महाकविरभूत् । तत्र हेतुश्चायम्, भगवता हेमचन्द्राचार्येणापि तस्य श्लोकाः स्वकीये काव्यानुशासनग्रन्थे वचन श्लेषस्यो.दाहरणत्वेन संग्रहीताः । स व्युत्पत्तिशास्त्रविशारदोऽपि बभूव यतः श्रीमद्भिर्हेमचन्द्राचार्यैरभिधानचिन्तामणिकोषटीकायां " व्युत्पत्तिर्धनपालतः " एवंविध उल्लेखो विहितः । तेन बहवोऽसाधारणा ग्रन्था विरचिताः । तेषां विरचिता तिलकमञ्जरी, पाइयलच्छी नाममाला, ऋषभपञ्चाशिका, वीरस्तवः सावयविहिइत्यादि ग्रन्था उपलभ्यन्ते । 2 नृपो ( श्रीवाक्पतिराजः ) भोजराजं कनीयांसं वनपालञ्च ज्येष्ठं सुतं मेने । For Private And Personal Use Only ,
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy