________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४८ ) પંક્તિ-શ્રેણિ વૃદ્ધિ પામેલા રેગથી (અથવા માનસિક વ્યાધિ અને વિષય વાસનાથી ) હુને દૂરથી વા સમીપથી બચાવે છે ૯૦ છે
जिनवाण्याः स्मरणम् ।
सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी
नूता नूतार्थधात्रीह ततहततमः पातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वाऽऽदेया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती ॥११॥ ___टीका-सद्य इति । ' सद्यः ' झटिति । ' असद्योगभिद्' असन्तमशोभनं योगं-कायादिव्यापारं, असद्धिर्वा असाधुभिर्योगं सम्बन्धं भिनत्ति या सा। ' अमलगमलया ' अमलो-निर्मलो गमानां-सदृशपाठानां लयः श्लिष्टता यस्यां सा। 'इनराजीनूता' इना ईश्वराश्चक्रवर्तिवासुदेवादयः, पतयः, आदित्या वा तेषां राज्या-श्रेण्या नूता-स्तुता । " इनः पत्यौ नृपार्कयोः” इति मेदिनी। ' नूतार्थधात्री' नूता नवा-ये अर्थास्तेषां धात्री-धरणशीला । अथवा नूताः स्तुता ये अर्थास्तान दधातीति नूतार्थधात्री । " अर्थोऽभिधेयरैवस्तु-प्रयोजननिवृत्तिषु” इत्यमरः । “ अर्थः प्रयोजने चित्ते, हेत्वभिप्रायवस्तुषु । शब्दाऽभिधेये विषये, स्यान्निवृत्तिप्रकारयोः” इति विश्व० · इह ' अत्र । ' ततहततमः पातकापातकामा' तताः-प्रसृताः हतास्तमश्च पातकं च अपात:-पतनरहितः कामश्च यया सा । अपातकामेति पृथविशेषणं वा; नास्ति पातश्च कामश्च यस्यां सा यद्वा पातकश्च आमश्च पातकामौ न विद्यते पातकामौ यस्यां सा न विद्यते पातकामौ-पतनेच्छे यस्यां सेति वा "कामः स्मरेच्छयोः काम्ये” इति विश्व० ' शास्त्री ' शास्त्रस्येयं शास्त्री-शास्त्री-शास्त्रसंबन्धिनी । “ निर्देशग्रन्थयोः शास्त्रं" इत्यमरः।
For Private And Personal Use Only