________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२८ ) ભયનો નાશ કરનાર એવા જિનસમૂહને ( ભવ્યાત્માઓ ! ) તમે પ્રણામ કરે છે ૭૮ ૫
सिद्धान्तस्य संस्तवनम् । त्वमवनताजिनोत्तम कृतान्त ! भवाद्विदुषो
ऽव सदनुमान सङ्गमन ? यात तमोदयितः। शिवसुखसाधकं स्वभिदधत्सुधियां चरणं,
वसदनुमानसं गमनयातत ? मोदयितः ? ॥ ७९ ॥ (हे ) · जिनोत्तमकृतान्त !' जिनोत्तमानां कृतान्तः सिद्धान्तस्तदामन्त्रणं तीर्थकृत्सिद्धान्त ! । ' सदनुमानसङ्गमन ! ' सद्विद्यमानं शोभनं वा अनुमानसङ्गमनं-अनुमानस्य सङ्गमनं-सङ्गतियस्य यस्मिन्वातदामन्त्रणम् । “ लिङ्गपरामर्शोऽनुमानम्” इतिमणिकृतः । “ परामृश्यमानं लिङ्गमनुमानम्" इत्युदयनाचार्याः । 'गमन यातत!' गमाश्च-सदृशपाठाः नयाश्च-नैगमादयःगमनयास्तैरातत ?विस्तीर्ण ? । ' मोदयितः ' प्रमोदजनक ? ' | ' याततमोदयित ?' यातं-अपगतं तमो मोहोऽज्ञानं वा येषां ते मुनयस्तेषांदयितःअभीष्टस्तस्यामन्त्रणम् । ' सुधियां' सुष्टु धीर्येषां ते सुधियस्तेषां धीमताम् । ' अनुमानसं ' मानसमनु-लक्ष्यीकृत्येत्यनुमानसं तत् । 'वसत्'। वसतीतिवसत्, वर्तमाने शतृप्रत्ययः । तिष्ठत् । 'शिवसुखसाधकं ' मुक्तिसौख्यस्य विधायकम् । 'चरणं ' अनुष्ठानम् “ चरित्रं चरिताचारी, चारित्रचरणे अपि” इति हैमः। ' स्वभिदधत् ' सुष्ठु-अभिदधातीति स्वभिदधत्-सम्यगभिदधानः । 'त्वं ' ' अवनतान् ' प्रणतान् । ' अव' रक्ष । ' अव' रक्षणे धातोराशिषि मध्यमपुरुषैकवचनम् ॥ ७९ ॥
For Private And Personal Use Only