________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १११) અને ખેટક-ઢાલવડે રમણીય એવી તે વિદ્યાદેવિ ! નથી (અન્ય જનોને ) ભયંકર હાસ્ય જેનું એવી હે મહાદેવી ! શત્રુઓ તરફના ભયપ્રતિ ઈતિ–ઉપદ્રવ સમાન હે નરદત્તા ! હે નિર્ભય ! અને હેટી મહિષી ઉપર આરૂઢ થયેલી (પુરૂષાગદત્તા, નરદત્તા) હે પુરૂષદત્તા ! લ્હારા પ્રસાદ મહને સભામાં સત્ત્વર–જલદી ફલદાયક થાઓ છે ૬૮ છે
१८-श्रीअरजिनस्तुतयः ।
अथश्रीअरनाथाय प्रणतिःव्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं,
सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दिभूरिभक्तिभाकू,
संनमदमरमानसं सारमनेकपराजितामरम् ॥६९॥ (द्विपदी)
व्यमुचच्चक्रेति- यः' प्रभुः। ' अनेकपराजितां' अनेकपाः अनेकाभ्यां-मुखशुण्डाभ्यां पिबन्तीत्यनेकपाः-करिणस्तैश्चतुरशीतिलक्षपरिमितगजै राजितां-विभूषिताम् । (अनेकैः परैः-शत्रुभिरजितामपराजिताम् ) 'चक्रवर्तिलक्ष्मी'-चक्रेण-चक्रायुधरत्नेन वा वर्त्तत इति चक्रवर्ती ' ग्रहादिभ्यो णिन् , (सिद्धहै ० ५-१-५३) इति णिनिस्तस्य, चक्रधरस्य लक्ष्मी-संपदं, "चक्रवर्ती चक्रवाके, सार्वभौमे गणे तथा। श्रेष्ठे चक्रे च, इति शब्दसिन्धुः। इह-अत्र लोके । 'तृणमिव' तृणवत् । 'क्षणेन' सपदि । 'व्यमुचत् ' त्यक्तवान् । 'तं' यत्तदोनित्यसम्बन्धात्-तथाभूतम् । — सन्नमदमरमानसंसारं' सन्नः-क्षीणो मदश्व-जात्यादिकः मरश्च मृतिः, मानश्च संसारश्च यस्य तम् । 'दूतकलधौतकान्तं ' द्रुतं-विलीनं यत्कलधौतं-कनकं तद्वत्कान्तं-मनोहरम् । “ कलधौतं कलारावे, क्लीबं कनकरूप्ययोः इति विश्व० ।
For Private And Personal Use Only