________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११० ) प्रोल्लसन्ती ये सती-शोभने असिफलके-खड्गचर्मणी ताभ्यां रामे ! रमणीये!। ' अभीमहासे !' अभीमः-सौम्यः हासो यस्याः सा तत्सम्बोधने हृद्यहसने ! । 'अरिभीते !' अरिभ्यः भीः अरिभीस्तस्या ईतिरिव ईतिस्तत्संम्बोधने हे ईतीभूते ! उपमेयं व्याघ्राद्यैः सामान्याऽनुक्तौ' (सिद्ध ० है ० ३-१-१०२) इत्युपमित्युत्तरपदसमासः । " इतिरुपद्रवे स्त्रीत्वे, अतिवृष्टयादि षट्सु च । प्रवासे डमरे चैव, कृषरुपालवे गतौ” ॥ १॥ इतिशब्दसिन्धुः। ‘अतिवृष्टि-रनावृष्टिमूषकाः शलभाः शुकाः। प्रत्यासन्नाश्च राजानः, षडेता ईतयः स्मृताः' ॥ १॥ 'अभीमहासेरिभीते!' अभीरविद्यमानभया या महासेरिभीमहामहिषी तामिते ! प्राप्ते ! " लुलायो महिषो वाह-द्विषत्कासर सेरिभाः" इत्यमरः। " लुलायः सेरिभो (सैरिभो) महः” इति हैमः। सीरिभिर्दन्तै ति सीरिभः-कुटंबी तस्याऽयमिति-अथवा सीयतेबध्यते इति सैरिभिः “सिटिकिभ्यामिभः सैरटिट्टौ च” (सि. उणा. ३३२) इति साधुः ' हे पुरुषदत्ते !' पुरुषेषु दत्तं यस्याः सा पुरुषदत्ता तदामन्त्रणे हे पुरुषदते ! (देवि ! " दत्तं विश्राणितेऽविते” इति विश्व० पुरुषाग्रदत्तानरदत्तेति नामान्तरे स्तोत्रादिषु दृश्यते। 'ते' तव 'प्रसादाः' अनुग्रहाः । " प्रसादोऽनुग्रहे काव्य-गुणस्वास्थ्यप्रसत्तिषु ” इतिमेदिनी। ' सदसि' सभायाम् । “ सभा समज्या परिषत्-समाजः पर्षत् सदः। समितिश्च घटाऽऽस्थानी, गोष्ट्यास्था संसदस्तथा ॥१॥ नपुंसके तु चास्थानं, स्त्रीनपुंसकयोः सदः ” । इति शब्दसिन्धुः । • सपदि ' तत्क्षणम् । 'मे' मम।' फलकराः ' कार्यसिद्धिविधायिनः । ' भवन्तु ' सन्तु ॥ ६८ ॥
પુરૂષદત્તા દેવીને અભ્યર્થના... Katथ-रायभान सौहाभिनी-पिजी समान भनाહેર દેહવાળી હે દેવિ ! દેદીપ્યમાન તેમજ ઉત્તમ એવા ખી
For Private And Personal Use Only