________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९९ ) जिनेश्वराणां विजयः। ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो
राज्या मेदुरपारिजातसुमनःसन्तानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि येन प्राप्तलोकत्रयीराज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः ॥६२ ॥
त इति- अविद्विषः ' विशेषेण द्विषन्तीति विद्विषः न विद्यन्ते विद्विपो येषान्ते, विगताऽरयः । 'रजोराज्या' रजसां कुसुमरेणूनां राजिः श्रेणिस्तया परागश्रेण्या। “ रजः पौष्पं परागः " इति हैमः ‘ मेदुरपारिजातसुमनःसन्तानकान्तां' मेदुराः-पीवरा याः पारिजातानां-कल्पतरूणां सुमनसः-कुसुमानि तासां सन्तानाःसमूहास्तैः कांतां-मनोहरां, अथवा पारिजातस्य सुमनसः प्रसूनानि, सन्तानकानि-सन्तानकपुष्पाणि च तेषामन्ता अवयवा यस्यां तां । " वृक्षाः कल्पः पारिजातो-मन्दारो हरिचन्दनः । सन्तानश्च ” इति हैमः । “ सुमनाः कुसुमे प्राज्ञे-धीरे सजनदेवयोः । समितौ निम्बवृक्षे च” इति शब्दसिन्धुः “सुमनाः पुष्पमालत्यो:स्त्रियां ना धीरदेवयोः इतिमेदिन्याम् । स्त्रियः सुमनस: पुष्पं, प्रसूनं कुसुम सुमं, इत्यमरः" 'माला' स्रजम् । ' दधानाः' दधत इति दधानाः, 'धा' धातोः कर्तरि वर्तमाने शानच् । बिभ्रतः । 'कुन्दसमत्विषा' कुन्देन-माध्येन समा त्विट्कान्तिर्यस्याः सा तया कुन्दसदृशमनोहारिण्या। “ कुन्दोऽच्युतेनिधौ चक्र-भ्रमौ माध्ये च” इति हैमः।' कीर्त्या' अभिख्यया । "कीर्तिर्यशोऽभिख्या" इति हैमः। ' चिताः' व्याप्ताः । ' प्राप्तलोकत्रयीराज्याः' प्राप्तं लोकानां त्रय्याः राज्यं यैस्ते प्राप्त०-प्राप्तलोकत्रयराज्यवैभवाः ।' अपारिजातसुमनःसन्तानकान्ताञ्चिताः' अपगताः अरीणां जाताः-सन्दोहा
For Private And Personal Use Only