________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वान्तस्य–तमसोऽज्ञानस्य वाऽन्तं-विनाशम् । “अन्तं विशुद्ध व्याप्ते स्यादन्तो नाशे मनोहरे । स्वरूपेऽन्तं मतं क्लीबं, न स्त्री प्रान्ताsन्तिके त्रिषु” इतिविश्व०। "तमिस्रं तिमिरं तमः। ध्वान्तं भूछायान्धकारं, तमसं समवान्धतः ” इति हैमः । ' ततान' विस्तारयामास 'सः' जिनौघ:-जिनानामोघः, उह्यते वहति वा ओघः, 'न्यंकादित्वादवि कृतघत्वः साधुः,' जिनेन्द्रसमूहः । " ओघो वृन्देऽभसा रये" इत्यमरः “ओघः परम्परायां स्या-द्रुतनृत्योपदेशयोः । ओघः पाथःप्रवाहे च, समूहे च पुमानयम्” इतिविश्व० । 'जीयात्' जयतात्।५८॥
जनसमूहनी स्तुतिકલેકાર્થ–જે જિનસમૂહે વિપુલ અગ્નિ સમાન દેદીપ્યમાન (અથવા વિશાલ અને નિરભિમાની પ્રમાણુવાળા એવા) ભામંડલના પ્રકાશવડે અજ્ઞાનરૂપી અંધકારનો નાશ કર્યો છે તે શ્રીજિનસમૂહ ( સર્વત્ર ) જયવંતો વર્તે છે ૫૮ છે
भारत्याः स्मरणम्भारति ! द्राग् जिनेन्द्राणां, ... .नवनौरक्षतारिके । संसाराम्भोनिधावस्मा
नवनौ रक्ष तारिके ? ॥ ५९ ।। - भारतीति- अक्षतारिके' अक्षतमनुपहतं अरयः शत्रव एव कं-वारि यस्मिन् सः तस्मिन् । “ के शिरोजलमाख्यातम्" इत्यनेकार्थः । “संसाराम्भोनिधौ' संसरणं संसारः स एव, अम्भांसि निधीयन्तेऽस्मिन्नित्यम्भोनिधिस्वस्मिन् भवसागरे । 'नवनौः ' नवा प्रत्यग्रा चासौ नौश्च नूतना नौस्तद्रूपा, अथवा संबोधनम्ः, द्रोणी ।
For Private And Personal Use Only