________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९४ ) " स्त्रियां नौस्तरणिस्तरिः” इत्यमरः । ' तारिके' समुद्धारिणि ! 'जिनेन्द्राणां' जिनवराणां, ( हे ) भारति ! वाणि ! ' अस्मान्' नः। 'अवनौ' भूमौ । ' द्राक्' शीघ्रम् । 'रक्ष' त्रायस्व । 'रक्ष' रक्षणे धातोराशिषि लिङ्गलोटावितिमध्यमपुरुषैकवचने कर्तरि हि प्रत्ययस्तस्य 'अतो हेः (पा० ६-४-१०५) इति हेर्लुकि रक्षेति सिद्धम् ।। ५९ ॥
ભારતીની સ્તુતિલોકાર્થ—અક્ષત-અવિનશ્વર છે શત્રુરૂપી જળ જેને વિષે એવા સંસાર સમુદ્રને વિષે, નવીન નૌકા–નાવ સમાન તારનારી ? હે જિનવરોની વાણિ? તું અહારૂં (આ) પૃથ્વી ઉપર સત્ત્વર વિલંબ રહિત રક્ષણ કર છે પ૯ છે
श्री प्रज्ञप्तिदेव्याः स्तुतिःकेकिस्था वः क्रियाच्छक्ति
करा लाभानयाचिता । प्रज्ञप्तितनाम्भोज
करालाभा नयाचिता ॥ ६० ॥ केकिस्थेति- केकिस्था' केकिनि तिष्ठतीति केकिस्था-मयूरारूढा । ' शक्तिकरा' शक्तिः आयुधविशेषः करे, यद्वा शक्तौ करो यस्याः सा-प्रहरणविशेषकरा । “ शक्तिरखान्तरे गौर्या-मुत्साहादौ बले स्त्रियाम् ” इति मेदिनी। 'अयाचिता' नास्ति याचितं यस्याः सा अयाचिता-अप्रार्थिता (अभीष्टार्थप्रदा) इत्यध्याह्रियते । 'नूतनाम्भोजकरालाभा' नूतनं यदम्भोज-कमलं तद्वत् कराला-अत्युल्बणा, भाकान्तिर्यस्याः सा 'करालो दन्तुरे तुङ्गे' भीषणेऽप्यविधेयवत् ।
For Private And Personal Use Only