________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
( ८२ )
श्रीराहिण्यै विनतिः --
प्रभाजि तनुतामलं, परमचापला रोहिणी, सुधावसुरभीमना, मयि सभाक्षमालेहितम् । प्रभाजितनुताऽमलं, परमचापलाऽऽरोहिणी, सुधावसुरभीमना मयिसभा क्षमाले हितम् ||५२ || १३||
( अचापला न विद्यते चापलं यस्याः सा
6
प्रभाजीति । अचापला - चपलत्वहीना | सुधावसुः ' सुधा - प्रासादानां लेपद्रव्यं तद्वद्वसुस्तेजो यस्याः सा, अथवा सुधा - अमृतं सैव वसु-द्रव्यं यस्याः सा । वसुत्वनौ, देवभेदे नृपे रुचि । योक्त्रे शुक्रे वसु स्वर्णे, रत्ने वृद्धयौषधे धने " ॥ १ ॥ इति हैमः । सुधा स्त्री लेपने मूव्यों, स्नुहीगङ्गेष्टकामृते "
(6
44
इति मेदिनी । 'अभी
"
मनाः भी:- भयं तत्र मनो यस्याः सा
न भीमनाः, अभीमनाः ।
,
,
सभाक्षमाला भया-प्रभया सह वर्त्तत इति सभा - सदीप्तिः
अक्षमाला - जपमाला
यस्याः सा ।
66
अक्षो बिभीतके कर्षे, रावणे शकटात्मनोः । पाशके मणिके चाक्षः, इन्द्रिये खण्डमोक्षयोः ॥ " इत्यनेकार्थतिलके । ' प्रभाजितनुता ' प्रभया जितैस्तेजसा तिरस्कृतैर्नुता - स्तुता । ' परमचापला' परमं प्रधानं चापंधनुति- गृह्णातीति परमचापला । धनुश्चापोऽस्त्रमिष्वासः, कोदण्डं धन्वकार्मुकम् । द्रुणाऽऽसौ - इति हैमः । ' सुधावसुरभी' सुष्ठु धावतीति सुधावा - सद्वेगा सा चासौ सुरभी च गौस्ताम् । ' आरोहिणी' अवश्यमारोहतीत्येवंभूता । ' ग्रहादिभ्यो णिन् ' ( सिद्ध हे० ५-१-५३ ) इति, आवश्यके णिनिः । ' अनामयिसभा ' आमयो रोगोऽस्या अस्तीति आमयिनी - रोगिणी न विद्यते सभा-परिषद्यस्याः सा अनामयिनी ' रोहिणी ' रोहन्ति कर्माणि - कार्याण्यस्यामिति
Acharya Shri Kailassagarsuri Gyanmandir
66
For Private And Personal Use Only