________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७१) जिनसमूहप्रार्थनापूतो यत्पादपांशुः शिरसि सुरततेराचरचूर्णशोभां, ___ या तापत्राऽसमानाप्रतिमदमवतीहारता राजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते,
यातापत्रासमानाप्रतिमदमवती हारतारा जयन्ती ॥४६॥
पूतोयदिति । 'पूतः' पावनः । " पवित्रं पावनं पूतं, पुण्यं मेध्यम्" इति हैमः । यत्पादपांशुः ' यस्याः पादपांशुश्चरणरेणुः । “ अथ रजसि स्यु—लीपांशुरेणवः” इति हैमः। 'सुरततेः' सुराणां ततिस्तस्यास्त्रिदशश्रेणेः · शिरसि ' मूर्धनि । ' चूर्णशोभां' वासःक्षोदश्रियम् । — आचरत् ' कृतवान् । 'चर' गतिभक्षणयोरितिधातोर्लङि कर्त्तरिपरस्मैपदे प्रथमपुरुषैकवचनम्। 'या' ( जिनेन्द्रराजिः) 'तापत्रा' तापात् त्रायत इति तापत्रा, तापात् कृतत्राणा । ' असमाना' न विद्यते समानस्तुल्यो यस्याः सा अनन्यसदृशी । — अप्रतिमदं ' न प्रतिगतो मदो यस्य तं, विगतमद-मदोपलक्षितमदनादिभिः रहितं साधुजनमित्यर्थः । · अवति' कामारिभ्यः पालयति । ' इह ' अस्मिल्लोके । ' अरता' नास्तिरतं-सुरतादिकं सुखं यस्याः सेति, यद्वा नरता-अरता कस्मिन्नपि वस्तुनि अनासक्ता, अप्रतिबद्धेत्यर्थः । 'राजयन्ती' ( भव्यान ) श्रियं लम्भयन्ती । ' यातापत्रासमाना' याता-विगता आपञ्च त्रासश्च मानश्च यस्याः सा। ' अप्रतिमदमवती' अप्रतिमः-अनन्यस
शो दम इन्द्रियजय उपशमो वा विद्यते यस्याः सा। 'कीर्तेः' यशसः । ‘कान्त्या' प्रभया करणभूतया । — हारताराः ' हाराश्वमुक्तावल्यः, ताराश्च-नक्षत्राणि ताः । · जयन्ती' न्यक्कुर्वन्ती अथवा कीर्तेः कान्त्या हेतुभूतया हारतारा-हारोज्ज्वला, विपक्षान्
For Private And Personal Use Only