________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६९ ) रक्ताते ! इत्यर्थः । तथा चोक्तम् । “ रक्तौ च पद्मप्रभवासुपूज्यौ” इति हैमः । “पउमाभवासुपुज्जा रत्ता" इत्यागमात् । 'अमाय!'न विद्यते माया यस्य स तत्संबोधने मायानिर्मुक्त!' असंसारवासावन!' न संसारवासं-भवावस्थानमवतीति, असंसारवासावनस्तस्यामन्त्रणम् । 'वर!' सर्वोत्तम!'"वरोऽभीष्टे देवतादे-र्वरोजामातृषिगयोः। श्रेष्ठेऽन्यवत्परिवृतौ, वरं कश्मीरजे मतम् ।। १॥ इतिविश्वः । 'नवालानबाहो ! ' नवः-प्रत्ययः, आलानो-गजवन्धनस्तम्भस्तद्वद्वाहू यस्य स तदामन्त्रणम् । “तोत्रं वेणुकमालानं, बन्धस्तम्भेऽथशृङ्खले” इत्यमरः । 'श्रीप्रभव !' श्रियः प्रभवः उत्पत्तिस्थानं यस्मात्स तदामन्त्रणम् , अथवा संपदामुत्पत्तिस्थान ! । ' अहो! ' इत्यामन्त्रणे. हे श्रीवासुपूज्य !, वसुपूज्यस्याऽपत्यं पुमान् वासुपूज्यः, यद्वा गर्भस्थेऽस्मिन् वसु-हिरण्य-रत्नं तेन वासवो राजकुलं पूजितवानिति, वसवो देवविशेषास्तेषां पूज्यो वा वसुपूज्यः स एव वासुपूज्यः 'प्रज्ञादिभ्योऽण्' (सिद्ध०७-२-१६५) चतुस्त्रिंशदतिशयरूपया ज्ञानरूपया श्रियोपलक्षितवासुपूज्याभिधजिनेश्वर ! ।' आनम्रा' आ-समन्तात् नमनशीला । 'आयासं' अनवरतभवभ्रमणरूपं श्रमम् । 'विभ्रती' दधाना। 'सारवा' आरवेण सहवर्तत इति सशब्दा-प्रारब्धस्तुतिपाठा, मधुरस्वरेण स्तुतिं कुर्वन्तीत्यर्थः। 'अनवरतरसालीनवाला' अनवरतमजस्रं रसायां भूमिपीठे, (नमनसमये) आलीना-आश्लिष्टाः, वालाःकेशा यस्याः सा, अनेन भक्त्यतिशयः सूचितः । 'नवा' अभिनवा, अत्र यमकवशात् बवयोरैक्यं विज्ञेयम् । उक्तञ्च-रलयोर्डलयोस्तद्वज्जययोर्ववयोरपि । शसयोर्नमयोश्चान्ते, सविसर्गाऽविसर्गयोः ॥१॥ सबिन्दुकाऽबिन्दुकयोः, स्यादभेदेन कल्पनम् ॥ कतिपयवासरलब्ध बोधिरस्मदादिवदित्याकूतम् । तथाभूता। ‘भक्तिभाजां' भक्तिः पूज्येष्वनुरागः श्रद्धा वा तां भजन्ति ये ते भक्तिभाजस्तेषामाराधकानां,
For Private And Personal Use Only