________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६४ )
6
6
इत्यमरः । ‘ असमदमहिता' असमोऽसदृशो दमो येषां तेषां मुनीनां, वा असमस्य दमस्य इन्द्रियनियन्त्रणरूपस्य हिता - हितकारिणी " अमारा न विद्यते मारो - मदनोमृत्युर्वा यस्याः सा का महीना मरणहीना वा “ मारोऽनङ्गे मृतौ विघ्ने ” इति हैमः । ' दिष्टाऽसमानवरा ' दिष्टा–दत्ता असमाना - असदृशा वराः - प्रार्थितार्था यया सा वितीर्णपूर्वमनोऽभिलषितवरा । ' अजया' न विद्यते जयः-अभिभवः कुतश्चिद्यस्याः सा, मिथ्यादृष्टिभिरपरिभूतत्त्वात् । यद्वा जयत्यन्तरारिषड्वर्गमिति जया, अकारप्रश्लेषं विना जयनशीला । अथवा न जायत इत्यजा तया । ‘नमदमृतभुक् पङ्क्या' नमन्ती - प्रणमन्ती या अमृतभुजां देवानां पङ्किः श्रेणिस्तया । समानवराजया मानवानां राजानः मानवराजास्तैः, “ राजन् सखेः " ( सि० ७–३–१०६) इति सूत्रेणाऽटि राजन् शब्दोऽकारान्तः । मानवेन्द्रैः सह वर्त्तते तया । नूता ’स्तुता । — आरात् ’ दूरादन्तिकाद्वा । " आराद्दूरसमीपयोः इति मः । 6 इष्टा पूजिता । रुचिकरा वा । ' जिनवरततिः जिनानां - सामान्य केवलिनां मध्ये वराः - प्रधानास्तेषां ततिः - श्रेणिरि - त्युभयत्र तत्पुरुषः । ‘मम मति' मदीयशेमुषीम् ।' असमदमहितां मदेन जात्यादिगर्वेण सह वर्त्तन्ते ये ते समदाः, न समदाः असमदाःशान्तचेतसस्तैर्महितां - पूजितां । क्तक्तवतू ' ( सि० ५-१-१७४ ) भूतार्थे पूज् धातोः कर्मणि क्त प्रत्यय: । ' तनोतु' विस्तारयतु-विधातु । ' तनु ' विस्तारे - इति धातोराशिषि लोट् प्रथमपुरुषस्यैकवचनम् ॥४२॥
(
""
"
6
For Private And Personal Use Only
,
જિનેશ્વરાની લક્ષયુક્ત સ્તુતિ.
શ્લાકાર્થ—પ્રાણિવર્ગ પ્રતિ નિષ્કારણ વત્સલ, વળી નિરૂપમ ઉપશમ છે જેમને એવા મુનિજનને હિતકારી, તેમજ મદન અથવા મૃત્યુથી રહિત, તથા અર્પણ કર્યા છે અપૂર્વ વરદાના જેણીએ, કાઇથી પણ પરાભવ ન પામી શકે એવી, તેમજ મિથ્યાદષ્ટિએથી