________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
અથવા આંતરિક પર્શત્રુઓને જીતનારી અથવા નહીં ઉત્પન્ન થનારી અને નરેંદ્રોથી યુકત નમસ્કાર કરતા એવા દેવાની શ્રેણિવડે સ્તુતિ કરાયેલી, વળી સર્વ જગને પૂજ્ય અથવા રૂચિકારક એવી તીર્થકરોની શ્રેણિ–પંક્તિ મારી બુદ્ધિને નિરભિમાન જાવડે પૂછત પવિત્ર બનાવો ૪૨ છે
जिनागमस्य स्तुतिःभवजलनिधिभ्राम्यज्जन्तुबजायतपोत ! हे,
तनुमति मतां सन्नाशानां सदा नरसम्पदम्। समभिलपतामहन्नाथागमानतभूपति,
तनु मतिमतां सन्नाशानां सदानरसं पदम् ॥ ४३ ॥ भवेति- भवजलनिधिभ्राम्यजन्तुबजायतपोत ! ' भवःसंसार एव दुस्तरत्वाजलनिधिस्तस्मिन् भ्राम्यन् यो जन्तूनां-प्राणिनां व्रजः-समूहस्तस्योत्तारणादायतपोत ! आयतश्चासौ पोतश्च यानपात्रं तदामन्त्रणे प्रलम्बयानपात्र ! । भवसमुद्रस्वरूपं देवगुप्ताऽऽचार्येण प्रदर्शितं-" नरकतिर्यङ्मनुष्यामरगतिचतुष्टयदुस्तरविपुलपात्रः, प्रियाऽप्रियविरहसंप्रयोगक्षुदभिघाताऽऽदिसन्निपातप्रतिभयाऽनेकदुःखाऽघातसलिलः, परोपघातिक्रूराऽनार्यजनाऽनेकमकरविचरितविषमः, मोहमहाऽनिलप्रेरणाध्मायमानगम्भीरभीषणप्रमादपातालः, नरकाऽऽदिविकृतभीमवडवामुखग्रस्ययमानाऽनेकपापकर्मसत्त्वः, रागद्वेषप्रबलाऽनिलोद्भुतसंजायमानवीचिप्रमृताशयवेलः।” “पोतः शिशौ प्रवहणे" इति हैमः।“ पोतः शिशौ वहिने च, गृहस्थाने च वाससि ॥" इति मेदिनी । ' हे ' इत्यामन्त्रणे । हे ' अर्हन्नाथाऽऽगम !' जिनेन्द्राऽऽगम ! “ सन्नाशानां सन्ना-विनष्ठा-विशीर्णा वा आशा मनोरथा
For Private And Personal Use Only