________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १९ )
वज्रशृंखलायै प्रणाम:
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्खलभृत्कनकनिभा
या तामसमानमानमानवमहिताम् । श्रीवज्रगृङ्खलां कज
यातामसमानमानमानव महिताम् ।। १२ ।।
"
शृङ्खलभृदिति । ( भो भव्यप्राणिन् ! त्वं ) ' शृङ्खलभृत् ' शृङ्खलमाभरणं बिभर्ति सा शृङ्खलधारिणी । 'कनकनिभा' कनकस्य - हाटकस्य नियतं भाति-निभा- तुल्या सुवर्णवर्णा, कनकस्य- सुवर्णस्येव निभा सादृश्यं यस्याः सेति वा, कान्तिसाम्यात् । " कल्याणं कनकं महारजतरैगाङ्गेय रुक्माण्यपि " इति हैमः । 'या' देवता, अस्ति । अस्मिन्वाक्ये ऽस्तीत्यध्याहियते येन विना यदनुत्पद्यते तत्तेनैवाऽऽक्षिप्यते, तथा च-“अह्ना विना न सूर्य:, सूर्यविहीनश्च वासरोनाऽस्ति । “कर्त्तृक्रिये तथैव हि संपृक्ते सर्वदा भवतः" इति वचनात् । 'तां' तथोक्ती 'असमानमानमानव महितां' असमानोऽसाधारणो मानः- पूजा बोधो वा येषां ते असमानमानाचते मानवाश्च तैर्महितामर्चिताम् । 'कजयातां' कर्ज - पङ्कजं याता - प्राप्ता तां कमलगतां ' अनवमहितां ' अवमंपापं तन्नविद्यते येषां तेऽनवमाः पापरहितास्तेभ्योहितां - हितकारिणीम् । अथवा असमानौ - असदृशौ, आनमानौ - प्राणाऽहङ्कारौ येषां तेऽसमानमानास्ते च ते मानवाश्च तैर्महिता - पूजिता ताम् । 'श्री वज्रशृङ्खला ' श्रिया सहितां, “श्रीशब्दो महत्वप्रतिपादकः पूज्यनामादौ प्रयुज्यते, श्रीवत्रशृङ्खलां देवीं । ' असमानं ' समानं न विद्यते यस्मिन्कर्मणि यथा स्यात् - असाहङ्कारं । आनम ' प्रणामं कुरु ॥ १२ ॥
""
1
6
,
શ્રી વજ્રશૃંખલાને પ્રણામ—
"लोअर्थ—ने हेवी शृंभता (३भी आभूषण ) ने धारण रे
For Private And Personal Use Only