________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २० ) છે, વળી સુવર્ણ સમાન સુશોભિત છે, તેમજ અસાધારણ છે બોધ જેમને એવા મનુષ્યો વડે જે પૂજાયેલી છે, કમળપત્ર પર નિવાસ કરે છે, વળી પાપરહિત (જીવોને) કલ્યાણકારી છે, તે દેવીને (હે ભવ્ય જન !) તું ગર્વ ત્યજી દઈને નમસ્કાર કરે છે ૧૨ છે
श्रीअभिनंदनजिनस्तुतयःत्वमशुभान्यभिनन्दन ! नन्दिता
ऽसुरवधूनयनः परमोदरः। स्मरकरीन्द्रविदारणकेसरिन् !
सुरव ! धूनय नः परमोऽदरः ॥ १३ ॥
द्रुतविलम्बितम् ।
त्वमिति- स्मरकरीन्द्रविदारणकेसरिन् ! ' करिणां गजानामिन्द्रःस्वामी करीन्द्रः, स्मरः-कामएव करीन्द्रस्तस्य विदारणे-विनाशने केसरिन् ! सिंह ! । 'सुरव ?' सुष्ठ रवो-ध्वनिर्यस्यस तत्संबोधने हे चारुध्वने ! हे ' अभिनन्दन !' अभिनन्द्यते-स्तूयते देवेन्द्राद्यैरित्यभिनन्दनः । “भुजिपत्यादिभ्यः कर्मण्यपादाने” (सि०५३-१२८) इति सूत्रेण कर्मण्यनट् यद्वा गर्भात्प्रभृत्येव अभीक्ष्णं देवेन्द्रेणाऽभिनन्दनाद्-अभिनन्दनस्तत्सम्बोधनम् । चतुर्थजिनेश्वर ! ' नन्दिताऽसुरवधूनयन !' नन्दितानि-मीणितानि, असुराणां-रक्षसां वध्वो भार्यास्तासां नयनानि-चढूंषि येन सः नन्दिताऽसुरवधूनयनः । अथवा नन्दितासुः अवधूनयनः इति पदद्वयम् । धर्मधर्मिणोरभेदादसुशब्देनाऽसुमन्त एवोच्यन्ते, तथा च-नन्दिताः-प्रीणिताः असवः प्राणा:-प्राणिनो येन सः, अवधूनयनः न विद्यते वधूषु नयने लोचने यस्य सोऽवधूनयनः । “ दाराः क्षेत्रं वधूर्भार्या " इतिहैमः । ब्रह्मचा
For Private And Personal Use Only