________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८ ) जिनप्रवचनस्तुतिःजिनराज्या रचितं स्ता
दसमाननयानया नयायतमानम् । शिवशर्मणे मतं दध
दसमाननयानयानया यतमानम् ॥११॥ जिनराज्येति- असमाननयानया' असमाने-अनुपमे, आननं मुखं, यानं-गमनश्च ते यस्यास्तया-अद्वितीयमुखगमनया । 'अयानया' न विद्यते यानं-वाहनं यस्यास्तया । अवाहनत्त्वश्चाऽस्याः सर्वपरिग्रहपरित्यागादुचितमेव । 'जिनराज्या' जिनानां राजिः पछिस्तया-जिनकदम्बकेन । ' रचितं ' निर्मितं । ' आयतमानं' आयतमलघु, मान-प्रमाणं-पूजा वा यस्य तत्-बृहत्प्रमाणं " मानं प्रमाणे पूजादौ, मानश्चित्तोन्नतौ गृहे” इतिविश्वः । 'असमाननयान्' असमानाः-असदृशाः ये नया-नैगमप्रभृतयस्तान् । ' दधत् ' दधातीतिदधद्-बिभ्राणम् । ' यतमानं' प्रयत्नं कुर्वाणम् । ' मतं ' प्रवचनम्-दर्शनम् । 'नः' अस्माकम् । अस्मच्छब्दस्य पष्ठीबहुवचनान्तम् ' रोर्यः' इतिसूत्रेण यत्वे कृते लोपे च सिद्धम् ( सि० ३१३-२६)। ' शिवशर्मणे ' मोनसुखाय — स्तात् ' भवतु ॥ ११ ॥
જિનપ્રવચન સ્તુતિકલોકાઈ–નિરૂપમ–ઉપમા હિત છે મુખ અને ગમન જેનાં, તેમજ (અશ્વ વગેરે) વાહન રહિત, એવી જિદ્ર શ્રેણિએ લે, વળી બહુ છે માન જેનું, અથવા વિસ્તીર્ણ વિશાલ છે પ્રમાણ જેનું, તથા અસાધારણ નયને ધારણ કરનાર, અને પ્રયત્ન કરતો એ (જૈન) મત-સિદ્ધાન્ત, અમારા મેક્ષસુખ માટે થાઓ છે ૧૧ છે
For Private And Personal Use Only