________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तमिति । 'यो' भगवान् । ' निजजननमहोत्सवे' निजस्यस्वस्य जननं-जन्म, तस्य महोत्सवे-महामहे । ' अनघनमेरुपरागं' अनघाश्च ते नमेरवश्च देववृक्षविशेषास्तेषां परागो-रेणुर्यस्मिन तं, "नमेरुः सुरपुन्नागः” इत्यमरः । “शिग्रुगेरुनमेर्वादय इति (उणा० ८११) सूत्रेण नमेर्नपूर्वस्य मयतेर्वा एञ्चान्तः रुप्रत्ययान्तोनमेरुशब्दोनिपात्यते " । 'अस्तकान्तं' अस्तगिरिर्मन्दरस्तद्वत्कान्तं मनोहरं, " अस्तस्तु चरमः क्ष्माभृत् ” इत्यमरः । अथवा जिनविशेषणमेतत् , अस्ता-निरस्ताः कान्ता-बनिता येन तं । अथवा अस्तं-स्वर्ण तद्वत्कान्तोरम्यस्तं । " अस्तं स्वर्णसुमाऽम्भसः" इत्यनेकार्थः “अस्तं
सुवर्ण वनोपान्ते” इतिव्याडिः ‘विराजद्वनघनमेरुपरागमस्तकान्तं' विराजद्भिः-शोभमानैर्वन्यन्ते वर्षादित्वादल वनन्ति वा वनानितै-चनैः-काननैर्घनोनिरन्तरोमेरुलक्षणोयः परागः, परः-प्रधानः, अगोगिरिस्तस्य मस्तकाऽन्तं, मस्तकस्य-शिखरस्य, अन्तमग्रम् । अथवा विराजन्ति-शोभमानानि वनानि-जलानि येषु तथाविधा घना-मेघा यस्मिन् स चाऽसौ मेरुपरागोमेरुरिति परमपर्वतस्तस्य शिखराऽयम् , 'वनं तु कानने नीरेऽप्युत्से वास-प्रवासयोः' इति श्रीधरः-। 'अधितष्ठौ' अधिष्ठितवान् । 'तं' तथाभूतम् । ' अजितं' गर्भस्थेऽस्मिन् द्यूते राज्ञा जननी न जीतेत्यजितः, यद्वा परीषहाऽऽदिभिर्न जितस्तमजिताऽभिधेयं द्वितीयं जिनेश्वरं । 'अभिनौमि' अभिष्टुवे-'णु स्तुतौ' धातोर्वर्तमाने लट् ॥ ५ ॥ पुष्पिताग्रा वृत्तं तल्लक्षणञ्च ---- "अयुजि नयुगरेफतोयकारो, युजि तु नजौ जरगाश्च पुष्पिताग्रा ।।
तो :--पोताना ( या ) ना भोत्सवसमये પવિત્ર નમેરૂ (દેવવૃક્ષવિશેષ) ના પરાગ જેમાં રહેલા છે, તેમજ અસ્તાચલપર્વત સમાન મનહર, વળી વિરાજમાન વનવડે નિબિડઘાઢ (અથવા શેભાયમાન છે જળથી ભરેલા મેઘ જેની અંદર અથવા પ્રકાશિત છે વન અને વાદળ જેમાં) એવા મેરૂ નામના શ્રેષ્ઠ
For Private And Personal Use Only