________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
છે, અને કામદેવને વશ કરનારા (મુનિવરે ) થી જે અલંકૃત છે ( અર્થાત્ જેને શ્રમણ પુરુષોએ સ્વીકાર કરે છે ) તે, विश्चने हनीय सेवा निवाथे रयेस (द्वादशाङ्गीरूप) सिद्धान्त, (ભવ્ય) લેક ! તમારી અનુપમ શાંતિને વિસ્તાર કરો ૩
श्रुतदेवतास्मरणम् । शीतांशुत्विपि यत्र नित्यमदधद्गन्धाढ्यधूलीकणा
नालीकेसरलालसा समुदिताऽऽशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तत्राऽब्जकान्ती क्रमौ,
नालीकेसरलाऽलसा समुदिता शुभ्रामरी भासिता ॥ ४ ॥
शीतांशुत्विषीति- केसरलालसा,' केसरेषु-पद्मगर्भपक्ष्मसु बकुलेषु वा लाल ला-तृष्णाऽतिरेक औत्सुक्यं वा यस्याःसेति बहुव्रीहिः "केसरो नागकेसरे। तुरङ्गसिंहयोः स्कन्ध-केशेषु बकुलद्रुमे । पुन्नागवृक्षे, किञ्जलके स्यात्केसरं 'तु' हिङ्गनि” ॥ १११४ इति-अनेकार्थसंग्रहः । केसरशब्दोऽत्र दन्त्यमध्यः कचित्तालव्यमध्योऽपि । “ आन्दोल कुसुमकेशरशरेण तन्वी, ” इति वासवदत्तायांदर्शनात् । “ तृष्णातिरेके औत्सुक्ये, लालसालोलयाञ्चयोः” इति विश्वः । केसरेषु लालसा-लम्पटेति तत्पुरुषो वा । — आशु' शीघ्रम् । 'समुदिता' मिलिता । ' इभासिता' इभेषु-गजेष्वासिता-स्थिता मदलाम्पट्यात् , अथवा, इभवदसिता-श्यामा । ' भ्रामरी' भ्रमरस्येयं भ्रामरी-षट्पदसम्बन्धिनी । ' आली' पङिः। 'शीतांशुत्विषि' शीताःशीतला अंशवो यस्य स शीतांशुस्तद्वत्त्विट्-कान्तिर्यस्य तस्मिश्चन्द्रवच्छभ्रे । 'यत्र' यस्मिन् कमले । 'गन्धाढ्यधुलीकणान् ' गन्धेन आट्यायुक्ता ये धूल्या-रजसः कणान्-परागबिन्दून् । ' नित्यं ' सततं, ' अदधत् ', अपिबत् । 'तत्र' तस्मिन् । 'नालीके '-सरोजे
For Private And Personal Use Only