________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७ )
"
अचलं-परवादिभिरजेयमित्यर्थः । ' छितमदोदीर्णाङ्गजालं, ' छितमदंभिन्नदर्पं, उदीर्णमुच्छ्रितमङ्गानामाचाराङ्गादीनां जालं - कदम्बकं समूहो यस्मिंस्तत् । " समवायोनिकुरम्बं, जालंनिवहसञ्चयौ ” इति हैमः | 'जगतां, ' लोकानां, पूज्यै-रर्चनीयैः, 'जिनैः, ' अर्हद्भिः, 'यत्,' कृतं, विनिर्मितम्, अर्थतस्तैरेवभाषितत्त्वात् । तथा चोक्तम्- " अत्थं भासइ अरहा, सुत्तंगंथंति गणहरानिउणं ” इत्यावश्यके । ' दृप्यत्कुवाद्यावली रक्षोभञ्जन हेतु लाञ्छितं, ' दृप्यन्ती- दर्पं प्राप्नुवन्तीया कुवादिनामावली - श्रेणिः सैवक्रूरात्मकत्वाद्रक्षो-राक्षसः, 'अत्र लिङ्गभेदों न दोषाय ', " लिङ्गभेदं तु मेनिरे ” इति वचनस्य प्रामाण्यात् । तस्य भञ्जनैर्भङ्गकारिभिर्हेतुभिः, लाञ्छितं चिह्नितं - मण्डितं वा । दीर्णाङ्गजालङ्कतं दीर्णः अङ्गजः - कामोयैस्तैः शीर्णमदनैः - श्रमणादिभिरलङ्कृतं - - विराजितम् । अदः, प्रत्यक्षदृश्यम् । इदमः प्रत्यक्षगतं, समीपतरवर्त्तिचैतदो रूपम् । अदसस्तु विप्रकृष्टे, तदिति परोक्षे विजानीयात् " || १ || 'तत्' ' प्रवचनं,' शासनं मतं, " प्रवचनं वेदे (आगमे) प्रकृष्टवचनेऽपि च " इति मुक्तावल्याम् । ' हे जन !,' हे लोक !, वः, युष्माकम् । अतुलां, अप्रमेयां । 'शान्ति' कुशलं, मोक्षं, उपशमं वा । तनुतात्, प्रथयतु, तुह्योस्तातङाशिष्यन्यतरस्यामिति ' तातङादेशे तनुतादिति सिद्धम् ॥ ३॥
"C
6
જૈન આગમ પ્રશંસા,
શ્લેાકા—જે સિદ્ધાન્ત પરસ્પર સગત-બંધ બેસતા ( અર્થાત્ યુકિતથી અવિરુદ્ધ તેમજ ઈષ્ટ અને જણાવનાર ) હાવાને લીધે નગમ આદિ નયાએ કરીને અખંડિત છે, વળી જેણે ( વાદીमोनो ) गर्व तोडी नाच्यो छे, नेमां (मायार आदि) संगोनो સમૂહ વધુ વેલા છે, જે મટ્ઠાન્મત્ત મિથ્યાવાદીજનાની પિતરૂપ રાક્ષસને નસાડનારી ( અર્થાત્ નાશ કરનારી ) યુક્તિથી યુક્ત
For Private And Personal Use Only