________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३ ) जानि-कमलानि तेषां विबोधने-बोधप्रदाने, एकश्चासौ तरणिरिवतरणिरद्वितीयभानुस्तत्सम्बुद्धौ हेभव्याम्भोजविबोधनैकतरणे ? " तरणिस्तरणेऽऽशौ, कुमार्योषधिनौकयोः ” । इतिहैमः यथा तिग्मरश्मिस्तमोभरं विनाश्य पद्मानि प्रबोधयति तथा सार्वज्ञोऽपि मिथ्यात्वमपनीय स्ववचनैर्भव्यान्प्रबोधयतीतिभावः । 'विस्तारिकावलीरम्भासामज ?' विस्तारिणी-विस्तरणशीला या-कर्मणां ज्ञानावरणीयादीनामावली-श्रेणिः सैव रम्भा-कदली तस्यां-तस्यावा प्रमर्दनहेतुत्वात् सामज इव सामजोगजस्तत्संबोधनम् ! “ सामवेदाज्जातः सामजः” इतिनिरुक्तिः । “ सामानिगायतो ब्रह्मणः करादष्टौ गजाः समुत्पन्नाः” इतिश्रुतेः । “ सामजः सामसंभूते, वाच्यलिङ्गः पुमान् गजे” इति मुक्तावल्याम् । महानष्टापत् ? महत्योनष्टाः प्रणष्टा आपदोविपत्तयो यस्माद्यस्यवा तत्संबोधनम् । 'प्रोज्झितारम्भ ! ' प्रोज्झिताः प्रकर्षेण त्यक्ता आरम्भाः सावद्या व्यापारा-हिंसात्मका दर्पा येनेति बहुव्रीहिस्तत्संबोधनम् । “आरम्भ उद्यमे दर्प, त्वरायाश्च वधेऽपि च” इति विश्वलोचनः । 'असाम ?' आमैः रोगैः सह वर्तत इति सामः, सामोनभवतीत्यसामस्तत्सम्बोधनम् । “ आम आमय आकल्यमुपतापोगदः समाः” इतिहैमः । 'जनाऽभिनन्दन ?' जनानभिनन्दयति-प्रमोदमुत्पादयतीति तत्संबोधने जनाभिनन्दन ? ' नन्दिग्रहादीति युप्रत्यये युवोरनाकावित्यनादेश' स्तत्सम्बोधनम् । ' हे अष्टापदाभ ? '-अष्टापदं-सुवर्णं तद्वदाभा-आसमन्ताद्दीप्तिर्यस्यतत्सम्बोधनम् । “ रुक्मंजाम्बूनदमष्टापदोऽस्त्रियाम्" इत्यमरः । “ अष्टापदं शारिफले, क्लीबमस्त्रीतु काश्चने। शरभे मर्कटे पुंसि, चन्द्रमल्ल्यां स्त्रियामपि ॥” इति विश्वलोचनः । " आभाराढाविभूषाश्री-रभिख्याकान्तिविभ्रमाः । लक्ष्मीश्छायेति हैमः । ” तप्तजात्यसुवर्णसमानवर्णत्वाद्भगवतः । 'आभासुरैः' आ
For Private And Personal Use Only