________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विप्रः शुद्धकुलोद्भवः समभवत्पुर्युजयिन्यां पुरा,
सद्विद्यानिधिरिष्टसिद्धिरमलः श्रीसर्वदेवाऽभिधः । तत्सूनुः सुधियां वरः सुविदितः श्रीशोभनाख्यो मुनि
र्यद्वन्धुर्धनपाल इत्यभिधया ज्येष्ठोऽभवत्ख्यातिभाक् ॥२॥ महेन्द्रसूरीश्वरपादसन्निधौ, स पण्डितः मरिपदं प्रपन्नः। श्रीशोभनाख्यस्तुतिमद्भुतामिमां,विशुद्धभक्त्या व्यरचजिनानाम् ।। श्रीमन्महावीरसुशासनस्य, धुरन्धरोऽभूद्गणमृद्वरेण्यः । सुधर्मनामाऽक्षयलब्धिपात्रं, सुराऽसुरेन्द्रनतपादपद्मः ॥ ४ ॥ परम्परातस्तदनुप्रजज्ञे, श्रीहीरसूरिर्जगदेकपूज्यः । क्रमेण तत्पट्टसुमेरुशृङ्ग, विभूषयामास सूरिप्रधानः ॥५॥ बुद्ध्यब्धिमूरिर्विदुषां वरेण्यो-योगीन्द्रचूडामणिरिद्धशासनः । तत्पादपद्मभ्रमरायमाणोऽजिताब्धिमूरिप्रवरोऽतिबुद्धिमान्॥६॥ लाटाऽनुप्रासयमका-द्यलङ्कारैर्विभूषिताम् । चतुर्विंशतिकां हृयां, जिनानां परिभाव्य सः॥ ७ ॥ तट्टीका सरलां चक्रे, स्पष्टमूलार्थबोधिनीम् । मन्दबुद्धिहितार्थाय, संक्षेपात्सारसंग्रहाम् ॥ ८॥ चतुर्भिःकलापकम्
इह हि ग्रन्थादौ ग्रन्थचिकीर्षुर्विन्नविघाताय विशिष्टशिष्टाचारपरिपालनार्थश्च स्वेष्टदेवतास्तुतिरूपमङ्गलं विधेयम्-यतः
" शिष्टाः शिष्टत्वमायान्ति, शिष्टमार्गाऽनुपालनात् ।
तल्लङ्घनादशिष्टत्वं, तेषां समनुपद्यते" ॥१॥ इति श्रुतिबोधितकर्त्तव्यतापूर्वकं तदाह___ भव्याम्भोजेति । ' भव्याम्भोजविबोधनैकतरणे !'-भव्यामुक्तियोग्या देहिनस्त एवाऽम्भोजानि-अम्भसि जातानि अम्भो
For Private And Personal Use Only