________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणोद्रव्यगतोधर्मः सहभावित्वलक्षणं पर्येत्युत्पादनाशौच पर्यायः स उदाहृतः ॥१२॥ द्रव्यहि सामान्यविशेषरूपं स्वतस्तथाप्रत्ययवेदनेन आद्यं विधास्यादनुवृत्तिहेतुः द्विधा द्वितीयोव्यतिवृत्तिहेतुः ॥ १३ ॥ सामान्यमेतत् किलतिर्यगूलता भेदप्रभिन्नं दिविधं वदन्ति ते व्यक्तौ समानं प्रथमं गवां बजे गोत्वंयथाद्रव्यमिदं ततोऽन्यथा ॥ १४ ॥ तुल्या सदा परिणतिःप्रथमस्यलक्षणं व्यक्तिंप्रतीहगदितं निजजातिवाचकं पूर्वापरात्म निजपर्यव वर्तनत्वतः द्रव्यंतदेवमपरंमतमूर्धताभिधं ॥१५॥ व्यक्ति विशेष स्वत एव सद्यो वच्छेदकत्वाद् व्यतिवृत्तिरूपः सोऽपिविधास्याद् गुणपर्यवाभ्यां स्वरूपभेदप्रथितात्मताभ्यां ॥ १६ ॥ द्रव्ये गुणाः सन्ति सदा सहोत्था स्तत्पर्यवास्ते क्रमभाविनः स्युः
For Private And Personal Use Only