________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
मनः पुनस्तद्वय साधनोत्क मप्राप्यकारिस्वमते च चक्षुः ॥ ज्ञानं तथैवाहुरपीतराणि यत्प्राप्य कारीणि तदिन्द्रियाणि ॥ ७४ ॥ योग्येन्द्रियार्थसमयोद्भव मुख्यसत्ता तन्मात्र गोचर समुद्भवसद्विशिष्टम् संगृह्यतेऽविशदं खलु येन वस्तु सोsवग्रहः पुनरयं पुरुषः समस्ति ॥ ७५ ॥ तद्गोचरीकृत पदार्थ विशेष संवि दीहास्ति संशय निराकरणोद्भवाऽत्र यद्येषएष पुरुषः किल दाक्षिणात्य स्तत्प्रत्ययात्मकतया ग्रहणाभिमुख्यम् ॥ ७६ ॥ जातस्तथेहितविशेष विनिश्चितात्मा भाषाद्यशेष विषयाचरणादपायः निश्चित्यवैष पुरुषः खलुदाक्षिणात्यो याथात्म्यबोधविधिना विधिवत्प्रयुक्तः ॥ ७७ ॥
कालांतरेण तद् विस्मरणाय योग्यं तज्ज्ञानमेवगदिता किलधारणैषा स्याच्चागृहीतविषय ग्रहणादमीषां कोप्यत्र पूर्व मुनिभिः कथितः क्रमोऽयं ॥ ७८ ॥
For Private And Personal Use Only