________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ मन्यत्तत्किलपारमार्थिक मतो नित्यं सतां संमतम्॥६८॥ आद्यं सांव्यवहारिकं पुनरपिद्वेधेन्द्रियाऽनिंद्रियोs त्पन्नत्वाद्विदितं तथापि हि चतुर्भेदं तथाऽवग्रहः ईहापाय सुधारणाभि रुदितं ज्ञानंहिमत्यात्मकम् तत्राद्यं विकलं तथा च सकलं तद्वान् स्मृत स्तीर्थ कृत् ॥ ६९ ॥
ज्ञानावरणनाशाच्च क्षयोपशम तो पिवा ॥ शब्दाद्यसंभविज्ञानं स्पष्टं स्वानुभवोदयात् ॥ ७० ॥ ज्ञानं सांव्यवहारिकं निगदितं प्रत्यक्षमेवेद्रियै र्जन्यंतत्किल पारमार्थिकमिदं तस्माच्च तद्धेतुकम् अन्यान्य व्यतिरिक्त लक्षणवतोः प्रत्यक्षताकिंतयो राधेस्यादुपचारतः कविवरैज्ञी ने परोक्षेऽग्रिमे ॥ ७१ ॥ स्पष्टं विशेष विशदप्रतिभासमानं ॥ प्रत्यक्षमेक मुदितं व्यवसाय रूपं तद्देशतो हि विशद प्रतिभासनत्वात् ज्ञानं विशिष्ट मिह सांव्यवहारिकं स्यात् ॥ ७२ ॥ ज्ञानं भवेदिंद्रिय जन्यमेकम् पुनस्तथानिंद्रिय जन्य मन्यत् स्पर्शादिकानां पुनरिंद्रियत्व मनिंद्रियत्वं मनसो वदंति ॥ ७३ ॥
For Private And Personal Use Only