________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
तत्राद्यं विकलं निजावरण कच्छेदोद्भवोत्पत्तिमत् किञ्चित्स्यादसमस्तवस्तु विषयावच्छेदकत्वात् पुनः प्रत्येवं प्रथमं हियभवगुणी सत्प्रत्ययौ यस्य तौ रूपिद्रव्य सुगोचरं तदवधिज्ञानं ह्यदः षड्विधम् ॥ ७९ ॥ चारित्रशुद्धि संजात विशिष्टावरणक्षयात् यन्मनोद्रव्य पर्यायालम्बनं विनिवेदितम् ॥ ८० ॥ तद् देधा संज्ञिजीवानां । मानुषक्षेत्रवर्तिनाम् मनःपर्याय विज्ञानं । मनः पर्यवसंज्ञिकम् ॥ ८१ ॥ स्वसामग्री विशेषोद्यत्समस्तावरणक्षयात् सकलं घातिसंघात विघातापेक्षमीरितम् ॥ ८२ ॥ समस्तवस्तु विस्तार | साक्षात्कारि त्रिकालतः सर्वथा सर्वदा नित्यं । केवलज्ञान मेवतत् ॥ ८३ ॥ सर्वज्ञोऽसौ वीतरागः प्रसिद्धो निर्दोषत्वात्सद्भिरेवोदितश्च ।। निर्दोषोऽयं सत्प्रमाणाऽविरोधि
वाक्तत्वादत्र स्पष्टदृष्टान्त एषः ॥ ८४ ॥ स्युः सूक्ष्मांतरितातिदूरगुणिन स्त्वण्वादयः कस्यचित् प्रत्यक्षः सततं यथाहुतवहः साध्योनुमेयत्वतः सर्वज्ञः किल सोस्त्यनिन्द्रियकतो ज्ञानाच्छ्रुतः सुश्रुतात्
For Private And Personal Use Only