________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
*
-
*
भीमीमसेनचरित्रे।
॥४०॥
मे भाग्य, कृतकृत्योऽस्मि साम्प्रतम् । गुरूणां दर्शनं मन्ये, महापातकनाशनम् ॥ ५० ॥ ततः समयवित्सरिः, साधुकर्मविशारदः । पारणानं समानेतुं गमनाय मनोदधे ॥५१॥ पृच्छतिस्म तदा भीमो, विनयाश्चितमानसः। ललाटन्यस्तह| स्ताम्जा, कथं गन्तुमना भवान् ॥ ५२ ॥ वभाषे मुनिना भूपः, पारणाऽवसरोऽद्य मे । चितिप्रतिष्ठपूर्या मे, गन्तुश्वास्ति मनोरथः ॥ ५३ ।। नृपतिर्मुरुपादाब्जे, गृहीत्वेति जगाद तम् । मयि प्रसादमाधत्स्व, गुरवो भक्तवत्सलाः ॥५४॥ शिलायां स्थापितः पूर्व-माहारः प्रासुको मया । परार्थमाहृतश्चैष-गृह्यतां याद रोचते ॥५५॥ मुनीनां निरवद्यश्चे-बोजनं प्राप्यते तदा । नाऽन्यत्रगमने हेतु-विद्यते नयवेदिनाम् ॥ ५६ ॥ भूपभावं मुनि त्वा, मनसीत्यविचारयत् । निर्दोष कल्पनीयञ्च, बहुमा| वसमन्वितम् ॥ ५७॥ आहारं प्रवरं त्यक्त्वा, ग्रामे किं मे प्रयोजनम् । निश्चित्येति महाज्ञानी, पात्राण्यस्थापयत्सुधीः ॥५॥ मुमुदे भीमसेनस्तु, मुनिपात्रनिरीक्षणात् । समयं धार्मिक प्राप्य, को न रज्यति मानवः ।। ५९ ॥ मानन्दमेदुरस्वान्तत्रिधाशुद्धमना नृपः । मिष्टान्नमर्पयामास, सुपात्राय सुसाधये ॥ ६॥ शुद्धेन भोजनाऽनेन, तुतोष मुनिपुङ्गवः । तस्माद्भीमस्य सद्भाग्य, फलितं पात्रदानतः ॥ ६१॥ पात्रे स्वन्पमहो ? दचं, फलाय महते स्मृतम् । शुद्धभूमिगतं बीजं, यथाऽनन्त फलप्रदम् ॥ ६२॥ पात्रदानं न किं कुर्यात् ? कल्पवृचाऽधिकं हि तत् । प्रार्थनेन तु कल्पद्रु-दर्दानं यच्छति तद्विना ॥६३ ॥ महामुनेः प्रभावेण, सम्यक्चारित्रधारिणः । तदाम्बरे मिलन् देवाः, कृतवैमानपतयः ॥ ६४ ॥ अहोदानमहोदानं, श्रेष्ठदानमिदं स्मृतम् । नाधिकं दानमेतस्मा-त्रिषु लोकेषु विद्यते ॥६५॥ प्रशशंसुरिति प्रेम्णा, निर्जरास्तदनुचणम् । ततो दीव्यानि पञ्चाऽऽशु, भवन्तिस्म विहायसि ॥ ६६ ॥ गन्धप्रचुरवारीणां, पुष्पाणां दीव्यवाससाम् । सार्द्धद्वादशलक्षाणां,
For Private And Personlige Only