________________
ShriMahavir Jain ArachanaKendra
Achhaltung
कृत्वा, भूयस्तादृद्गतिर्नृणाम् ॥ ३२ ।। बोधिबीजसहायेन, निर्भयो जायते नरः । चक्रवत्परिवर्त्तन्ते, दुःखानि च सुखानि च | ॥३३ ।। नैकत्र सुखसंवासः, स्थिरीभवति भूतले । कृतकर्मानुसारेण, सुखं दुःखश्च भुज्यते ॥ ३४ ॥ ज्ञातजैनमतो देही, नैवं लोकविगर्हितम् । समाचरति मूर्खाणा-मेष पन्थाः प्रकीर्तितः ॥ ३५ ॥ एवं कृतेऽपि किं दुःखं, नश्यत्येव पुराऽर्जितम् । न लामोऽस्त्यात्मघातेन, साहसं कुरु मावृथा ।। ३६ ।। धर्मघोषमुनेवाचं, निशम्य भीमसेनकः । वृत्तान्तं निजमाचख्यो, मूलमारम्य दुःखितः ॥ ३७॥ आश्वासयस्ततः मूरि-वोचन्नृपपुङ्गवम् । अवश्यमेव भोक्तव्यं, सुकृतं दुष्कृतं निजम् ॥ ३८॥ मरणाद्यदि कर्माणि, चीयन्ते देहिनां नृप? । तदा मोचसुखं केत्र, न लभन्ते दुराशयाः ॥ ३६॥ मरणं शरणं पापा-जायते जनमोहकम् । सुकृतघ्नं सदा प्रोक्तं, तत्याज्यं सर्वथा बुधैः ॥ ४० ॥ दुयोनजनितो मृत्यु-दुःखमूलो हि केवलम् । आत्मघातभवं पापं, महारौरवदायकम् ॥४१॥ सुखमापतितं सेव्यं, दुःखमापतितं तथा। निजकर्मविपाकेन, निर्दिष्टं ज्ञानिभिर्द्वयम् ॥ ४२ ।। कुतकर्मचयो लोके, भोगादेव प्रजायते । आर्तध्यानेन वर्द्धन्ते, कर्माणि च दिने दिने ॥४३॥ क्षीयन्ते चाऽष्टकर्माणि, समवसेवनात्सदा । यथा सुखं स्थिरं नैव, तथा दुःखमपि ध्रुवम् ॥ ४४ ॥ धर्मध्यानं सदा कार्य, पुरुषेण विजानता । जिनमूय॑र्चनं प्रोक्तं, देहिनां सुखदायकम् ॥ ४५ ॥ ये कुर्वन्ति जिनेन्द्राणां, पूजनं भावतो जनाः। ते प्रयान्त्युत्तमाँलोकान् , क्षीणकर्ममलाः सदा ॥ ४६ ॥ उत्तमं मानुषं जन्म, लब्ध्वा धर्मो न साधितः । अजागलस्तनस्येव, तस्य जन्म निरर्थकम् ॥४७॥ श्रुत्त्वेति नृपतिः प्रोचे, प्रभो ! त्वद्वचनं मम । मान्यमेवाऽस्ति कः कुर्या-च्छङ्का कन्पतरौ जनः॥४८॥ इदानीं मम दुःखानि, निवृत्तान्यखिलान्यपि । अमोघाद्दर्शनादेव, भवतां भवनाशकात् ॥४९॥ फलितश्चाऽद्य
For Private And Personlige Only