________________
श्री मीमसेनचरित्रे ।
पष्टमः समे।
॥३९॥
ननाम भूयः ॥ १७॥ मुनिक्रमस्पर्शनमात्रतोऽभू-प्रसन्नपञ्चेन्द्रियवृचिरेषः । पुनः पुनः स प्रगति प्रकुर्व-स्तृप्तिं न लेमे मुनिदर्शनेन ॥ १८ ॥ मुनिस्तु तस्मै प्रणताय दवा, धर्माशिर्ष योग्यतमाय योग्याम् । कराग्रसंस्थं प्रविलोक्य पाशं, प्रोवाच किं कर्तुमिहेच्छसि त्वम् ? ॥१६॥ भो भीमसेनाऽसि धरापतिस्त्वं, नैतत्वयि प्राकृतवद् घटेत । वामन्तरा राजगृहं पुरं हा, भविष्यति स्वामिविहीनमद्य ।। २० ॥ सुकोमला त्वत्तनुरीदृशी किं, जाता हिमक्लान्तलतेव राजन् । त्वं राजचिह्नानि कथं न धत्से, दशामिमां ब्रूहि गतोऽसि कस्माद् ॥ २१ ॥ को हेतुरत्रागमने तवाऽस्ति, किमात्मघातं विहितुं प्रवृत्तः । सुधासमं तद्वचनं निपीय, चितीश्वरश्चेतसि मोदमापद् ।। २२ ॥ कृतोपयोगेन हृदि स्वकीये, मेने मुनि ज्ञाननिधि क्षितीन्द्रः। समस्तदारियमहो मदीयं, विनष्टमेतन्मुनिदर्शनाद्वै॥२३॥ भीमोऽब्रवीदित्यनुमन्यमानो-मुनीन्द्र ? मे भाग्यमहोविशालम् । धन्योऽस्मि ते दर्शनतोऽद्य जन्म, जातं हि मे धन्यतमं सुपुण्यैः ।। २४॥ येषां गुरूणां सरणेन लोकाः, संसारपाथोधिजलं तरन्ति । ते मेऽन्तकाले नयनाभिलक्ष्या-जातास्ततोऽहं सुकृतैकपात्रम् ॥२५॥ ज्ञानप्लवेनैव भवोदधिं ये, तरन्त्यनेकान्भुवि तारयन्ति । जीवान्स मे ते गुरवो भवन्तु, ममाऽन्तकाले शरणं पवित्राः ॥ २६ ॥ विशुद्धप्रेमसंभारा-स्मारं स्मारं गुरोर्गुणान् । हृदयं विह्वलीभूतं, भीमसेननरेशितुः ॥२७॥ अमन्दानन्दसन्दोहा-त्पूरितं तन्मनोऽभवत् । गुरूणां दर्शने केषां, पूर्णता नैव जायते ॥ २८॥ अन्तिम समये जातं, दर्शनं पावनं गुरोः । स्मृत्वेति सोऽमुचत्सद्यो-नयनोदकधोरणीम् ॥ २६ ॥ गद्गदेनाऽऽशु कण्ठेन, नैव किश्चिदुवाच सः। अधःचिप्ताचिसंचारो-नियोजितकराम्बुजः॥३०॥ दयाम्भोधिगुरुः प्रोचे, नृप ? किं मौनमास्थितः । भात्महत्या कृतैकात्र, घनन्तभवकारणम् ॥ ३१ ॥ आत्मघातिनरा लोके, दुःखिनोऽनेकजन्मनि । अज्ञातमरणं
॥३९॥
For Private And Persone
Only